________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥३१४॥
www.kobatirth.org
ख्येया, सर्वत्र सम्यगग्रहणस्यैव तदर्थत्वात्, ये तु विवेकाख्यातिद्विषः शुतौ रजतप्रतीतिं स्थापयन्ति, तेषां ज्ञानान्तरेऽपि मिथ्यात्वसम्भावनया सर्वत्रानाश्वासात् प्रवृत्यादिव्यवहारोच्छेदप्रसङ्ग इति । अत्र ब्रूमः - यत्तावदुक्तम् इदं रजतमिति विपरीतप्रत्ययो - त्पत्तौ न किञ्चित्कारणं पश्याम इति, तत्र " न ह्ययं स्थाणोरपराधो, यदेनमन्धो न पश्यति" इति न्यायावतारो, दुष्टेन्द्रियादेरेव तद्धेतुत्वात्, स्वाकारसंवरणरजतरूपापत्तिपरिणामविशेषवत्याः शुक्तेरेव चालम्बनत्वात् न च कार्यसिद्धौ कारणाभावाशङ्का युक्तिमती, तथा च प्रामाणिकाः ॥ “ कार्य चेदवगम्येत, किं कारणपरीक्षया । कार्य बेभावगम्येत, किं कारणपरीक्षया" ॥१॥ इति यदप्युक्तं दुष्टकारणस्य स्वकार्यानुत्पादकत्वं, न तु विपरीतकार्योत्पादकत्वमिति, तत्रापि नियमं न पश्यामो, दवदहनदग्धवेत्रबीजात् कदलीप्रकाण्डोत्पत्तिदर्शनात्, दवदहनस्य वेत्रांकुरोत्पादने दोषता कदलीप्रकाण्डे त्वनुगुणभाव एवेति चेत्, अत्रापि काचकामलादेः सत्यज्ञानोत्पादने दोषता मिथ्याज्ञानोत्पादने त्वनुगुणभाव एवेति तुल्यं, यदप्युक्तं, इदं रजतमिति ग्रहणस्मरणरूपं ज्ञानद्वयं न त्वेकं विशिष्टज्ञानमिति, तदपि तुच्छं, रजतार्थिप्रवृत्तिमात्रे रजतत्वप्रकारकज्ञानस्यैव समानविशेष्यत्वप्रत्यासच्या संवादिप्रवृतिस्थले हेतुत्वकल्पनाद्विसंवादिप्रवृत्तिहेतोरपि मिथ्याज्ञानस्यैकस्य सिद्धेः संवादिप्रवृत्तौ विशिष्टज्ञानं हेतुर्विसंवादिप्रवृत्तौ चोपस्थितेष्टमेदाग्रह इति कल्पने गौरवात्, मेदाग्रह इत्यत्र च भेद एव कोऽभिप्रेत आयुष्मतः, किं वस्तुस्वरूपमात्रम्, उत परस्पराभावः, आहोश्चिद् व्यावर्त्तकधर्मयोगः, आद्ये ग्रहणस्मरणाभ्यां पुरोवर्त्तिपूर्वानुभृतवस्तुस्वरूपग्राहिभ्यां मेदो गृहीत एवेत्यप्रवृत्तिप्रसङ्गः, द्वितीयपक्षस्तु प्राभाकरैरभावानभ्युपगमादेव निरस्तः, तदभ्युपगमेऽपि स्मृतरजतस्य कथं नामावज्ञानम्, दोषवशान्नियतदेशतयाऽवगतस्यानियतदेशतया स्मरणान्न तदिति चेत्, आयातान्यथाख्यातिः, देशविनि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः सक्षमः ॥
॥३१४॥