SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥३१३॥ www.kobatirth.org निवेशात् । अत्रापि लोकसमयप्रतिबद्धानां परस्परविरुद्धशब्दबुद्धीनां स्वार्थसंबन्धः परमार्थतः प्रसज्येत । न चैवं तृणाये करिणां शतमित्यादिवचनानां स्वप्नादिबुद्धीनां च स्वार्थे संबन्धाभावात् तथा संवादासिद्धेः । स्यान्मतं 'द्विविधोऽर्थो, लौकिकोऽलौकिकश्च । यत्र लोकस्य परितोषः स लौकिकः सत्यत्वाभिमतज्ञानविषयः । यत्र न लोकस्य परितोषः शास्त्रविदां तु संतोषः सोऽलौकिकोर्थः स्वप्नादिबुद्धिविषयः, सर्वथाप्यविद्यमानस्य प्रतिभासवचनासंभवात् खरविषाणानुत्पन्नप्रध्वस्तविषयशब्दज्ञानानामपि लोकागोचरालौकिकार्थविषयत्वात्' इति तदेतदलौकिकमेव, जाग्रत्प्रत्यया निरालम्बना एव प्रत्ययत्वात् स्वप्रप्रत्ययवदिति परार्थानुमानप्रत्ययस्यास्वार्थप्रतिबद्धत्वे तेनैव चेतस्त्वस्य विषयाकारनिर्भासस्य च हेतोर्व्यभिचारात्, स्वार्थप्रतिबद्धत्वे च सर्ववेदनानां सालम्बनत्वविरोधात् । अस्यालौकिकार्थालम्बनत्वान्न लौकि कालम्बनत्वे साध्ये हेतोर्व्यभिचारो विरोधो वेति चेत्, न, लौकिकालौकिकार्थालम्बनशून्यत्वानुमानेन हेतोर्व्यभिचारविरोधयोस्तदवस्थत्वात् । न चैवंविधार्थानां परस्परविरुद्धानां सकृत्संभव इति न बहिरङ्गार्थतैकान्तः श्रेयानऽन्तरङ्गार्थतैकान्तवत् ॥ ८१ ॥ बहिरङ्गार्थैकान्ता इति, यत्र यो यथा प्रतीयते तत्र स तथाऽस्त्येवेत्येकान्ताभ्युपगमे, प्रमाणाभासस्य तदभाववद्विशेष्यकतत्प्रकारकज्ञानस्य, निवात्, सर्वेषां विरुद्धार्थवादिनां प्रकृतीश्वराद्यभ्युपगन्तृणामुपचरितवादिनां स्वप्नादिद्रष्टृणां च वाङ्मात्रेण कार्यसिद्धिः स्यात् तद्वचनज्ञानयोरर्थाव्यभिचारत्वादिति भावः । स्यान्मंतमित्यादिना मीमांसकः शङ्कते ; खरविषाणानुत्पन्नेत्यादि, खरविषाणादीनां दृश्यानामसत्त्वेऽपि विकल्पानां सतां विकल्पबुद्धौ मानादलौकिकत्वमिति भावः, एतन्मतं दूषयति तदेतदलौकिकमेवेत्यादिना, न चैवंविधार्थानामिति अलौकिकलौकिकालौकिकार्थालम्बनशून्यत्वसिद्धावुभयार्थालम्बनत्वपर्यवसानेन विरोधग्रासान्न कस्यापि सिद्धिरित्यर्थः ॥ अपि चैवं शुक्तावलौकिकरजतप्रतिभासे रजतार्थिनां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः सप्तमः ॥ ॥३१३॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy