________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥३१२॥
परिच्छेदः | सप्तमः॥
न्तीति हेतोरसिद्धिः, नियमस्यासिद्धेः । किश्च सहोपलम्भनियमश्च स्या दश्च स्यात् । किं विप्रतिषिध्येत ? स्वहेतुप्रतिनियमसंभवात् । इति सन्दिग्धव्यतिरेको हेतुर्न विज्ञप्तिमात्रतां साधयेत् । तस्मादयं विज्ञानवादी मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणद्धीति न किंचिदेतत् , असाधनाङ्गवचनाददोषोद्भावनाच निग्रहाहत्वात् । न ह्यस्य वचनं किंचित्साधयति दूषयति वा, यतस्तद्वचनं साधनाङ्गं दोषोद्भावनं वा स्यात् । नापि किंचित्संवेदनमस्य सम्यगस्ति, येन मिथ्यादृष्टिर्न भवेत्। संविदद्वैतमस्तीति चेत्, न, तस्य स्वतः परतो वा ब्रह्मवदप्रतिपत्तेर्यथासंवेदनं मिथ्यात्वसिद्धेः । तदेवं नान्तरङ्गार्थतैकान्ते बुद्धिर्वाक्यं वा सम्यगुपायतत्त्वं संभवतीति स्थितम् ॥ ८ ॥
स्वाभिलाप्य(पा)भावं स्वेन ज्ञानेनैवाभिलाप्यभावम्, स्ववचनविरोधस्यैवेति अभिलापेऽभिलाप्यत्वस्यानभिलापे | ज्ञानेऽभिलापात्मत्वस्य चोक्तौ विरोधस्य स्पष्टत्वादित्यर्थः । स्वयमनिष्टेरिति, अन्यथा साकारत्वप्रसङ्गादित्यर्थः, विचारात्पूर्वमपीति, न च विज्ञप्तिवादिनस्तत्त्वज्ञानात्पूर्वमविद्याविलासजनितेन विचारान्तरेण साध्यसाधनभावव्यवस्थितेरनवस्थायाश्चानादित्वेन निरासान्नानुपपत्तिरिति वाच्यम् । असत्ख्यातेरनिर्वचनीयख्यातेश्च निरासेनाविद्याजनितविचारेण व्यवहारव्यवस्थायाः कर्तुमशक्यत्वात् , न च नानाविधविप्रतिषिद्धव्यवहाराणामन्यतरविधिनिषेधयोरविद्या प्रगल्भते, न च सर्वेषामेव तेषां तत्त्वदिक्प्रदर्शकत्वेनादुष्टत्वम् 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत इति ' वचनादिति वाच्यम् , सर्वपक्षपरिग्रहापत्त्या तत्त्वसङ्करापत्तेः, पिटकत्रयप्रदर्शिता एव विचारा अदुष्टा न वेदान्तादिप्रदर्शिता इत्यत्र च न किश्चिन्मानमस्तीति विचारितं बहुशः। एतेन भेदाभावसिद्धिनिराकरणेन, अभेदसाधनं विधिरूपाभेदसाधनं, सश्चितालम्बना इति सश्चितमा
४
॥३१॥
+
For Private And Personal Use Only