________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
RE5
%A
मन्त्रशक्तरपि दर्शनात् । न ह्याथर्वणानामेव मन्त्राणां शक्तिरुपलभ्यते, न पुनः सौगतादिमन्त्राणामिति शक्यं वक्तुं, प्रमाणबाधनात् । वैदिका एव मन्त्राः परत्रोपयुक्ताः शक्तिमन्त इत्यप्ययुक्तं, प्रावचनिका एव वेदेपि प्रयुक्ता इत्युपपत्तेस्तत्र भूयसामुपलम्मान समुद्राधाकरेषु रत्नवत्। न हि कियन्त्यपि रत्नानि राजकुलादावुपलभ्यमानानि तत्रत्यान्येव, तेषां रत्नाकरादिभ्य एवानयनात् तद्भवत्वसिद्धर्भूयसां तत्रोत्पत्तिदर्शनात् । तद्वत्प्रवचनैकदेशविद्यानुवादादेव सकलमन्त्राणां समुद्भूतिविस्तीर्णात् , न पुनर्वेदात्तल्लवमात्रादिति युक्तमुत्पश्यामः । वेदस्यानादित्वादपौरुषेयत्वाच्च तन्मन्त्राणामेवाविसंवादकत्वं संभवतीति चायुक्तं, तदप्रसिद्धः। सिद्धेपि तदनादित्वे पौरुषेयत्वाभावे वा कथमविसंवादकत्वं प्रत्येतव्यम् ? म्लेच्छव्यवहारादेस्तादृशो बहुलमुपलम्भात् तेन तस्य व्यभिचारात् । एतेन वेदेकदेशेन स्वयमप्रमाणतयोपगतेनानादित्वस्यापौरुषेयत्वस्य चानैकान्तिकत्वमुक्तम् । किं च कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेयस्यैव वचनस्य दोषनिवृत्तिः कर्तुर्वीतदोषस्यापि संभवात् — दोषावरणयोहोनिः' इत्यादिना संसाधनात्, न पुनरपौरुषेयस्य, तदध्येतृव्याख्यातृश्रोतृणां रागादिमत्त्वाद्वीतरागस्य कस्यचिदनभ्युपगमात् , सर्वथाप्यपौरुषेयस्य तदुपगमेन विरोधात् । नेतरस्य, कथंचित्पौरुषेयस्य तदविरोधात् । इति निश्शवं नश्चेतः, त्रिविप्रकृष्टस्यापि निर्णयोपायप्रतिपादनादिति । वक्तगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुर्ज्ञानवत् , विसंवादस्य तद्दोषानुविधानात् । यथैव हि चक्षुर्ज्ञानस्य बातृगुणं सम्यग्दर्शनादिकमपेक्ष्याविसंवादकत्वं, तदोषं मिथ्यादर्शनादिकमपेक्ष्य विसंवादकत्वं चोपपद्यते, तथा वक्तुर्गुण यथार्थज्ञानादि दोषं च मिथ्याज्ञानादिकमपेक्ष्य संवादकत्वं विसंवादकत्वं चेति निश्चितं महाशास्त्रे । ततोऽनाप्तवचनान्नार्थज्ञानमन्धरूपदर्शनवत् । न हि जात्यन्धो रूपं दर्शयितुमीशः परस्मै । तथानातोपि नार्थ ज्ञापयितुमतिप्रसङ्गात् । एवमपौरुषेयस्य वचनस्य पौरुषेस्य च गुणवद्वक्तकस्य कारणदोषाभावान्निर्दोषत्वं समानमतिशयासंभवात् । तत्र यदेव युक्तियुक्तं तदेव प्रति
4
%
AF+5
For Private And Personal Use Only