SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बोधाय ब्राह्मणानाममृतमधरयन् वीरवक्त्राद्विनिर्य-न्नुच्चैः निःखेदवेदध्वनिरुपचिनुताच्छर्म तात्पर्यशुद्ध वेदाः खेदाय ते ये शतपथविहितैः कर्मभिः कर्मनाट्य-हिंसोहोघे प्रवृत्ताः शमदमरहितैः सङ्गहीताश्च जाल्मैः। येतूद्वत्त्यादिमांगान्मुनिभिरुपरतश्राद्धपाठाय क्लृप्ता-स्ते मन्त्रब्राह्मणाख्याःप्रभुगुणविषयाःसर्व एव प्रमाणम्।। षष्ठे हेत्वागमैकान्तनिराकरणाय प्रक्रमः, तत्र हेतुवादैकान्तसिद्धये केषाश्चियुक्तिमुपन्यस्यति इह हीत्यादिना, तन्मतं क्षयति तेषामित्यादिना, अनुमानादितोऽप्यनुमानप्राक्कालेऽपि, प्रत्यक्षात्प्रत्यक्षप्रमाणाद्, गतिर्ज्ञानं, पक्षादेन स्यादिति योजना । न चेति, तथा च प्रामाण्यसंशयमूलार्थसंशयनिराकरणरूपविवेचनेऽनुमानस्येव तन्मूलव्याप्त्यादिपरिच्छेदे प्रत्यक्षस्याप्युपयोगाद् द्वयोस्तुत्यत्वमित्यर्थः । प्रामाण्यग्रहेऽप्यनभ्यस्त विषयेऽनुमानस्येवाभ्यस्तविषये प्रत्यक्षस्यैवोपयोगस्तत्र स्वतः | प्रामाण्यग्रहस्यैवोपपादितत्वात् स्वत इत्यस्य च स्वेनैवेत्यर्थात् स्वांशे च सर्वत्र ज्ञाने प्रत्यक्षत्वेष्टेरित्यभिप्रायवानाह भाष्यकृत कथमित्यादिना, चित् साक्षात्करणमन्तरेण कथं क्वचिदनुमानं प्रवर्ततेन कथश्चित् क्वापीत्यर्थः। शास्त्रोपदेशात्प्रवर्तते इति पुनः किं वाच्यम् । अनुमानसामान्याप्रवृत्तौ परार्थानुमानरूपविशेषप्रवृत्तेरयोगादित्यर्थः । तदेवाह वृत्तिकृत् प्रत्यक्षादपीत्यादिना, आगमैकान्तवादियुक्तिमुपन्यस्यति ये त्वाहुरित्यादिना, 'तमन्तरेणेति अत्र पद्मरागत्वमुपदेशसहकृतेन्द्रियवेद्यमिति नैयायिकसम्प्रदायविदः । नव्यास्तु भिन्नप्रमाणयोरेकज्ञानाजनकत्वेन न परस्परसहकारित्वमिति पद्मरागत्वप्रत्यक्षे रूपविशेषग्रहणमेव हेतुः, रूपादिविशेषवान् मणिः पद्मराग इत्युपदेशस्तु गोसदृशो गवय इत्यतिदेशवाक्यवत् पद्मरागपदवाच्यत्वोपमितावुपयुज्यत इत्याहुः, तदसत् , रूपविशेषपद्मरागत्वयोर्ग्रहस्य तुल्यसामग्रीकत्वाच्छिक्षातः पूर्व रूपविशेषग्रहेऽपि पञ्च SASS++ॐॐ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy