________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
बहसहस्री विवरणम् ।।
परिच्छेदा पश्चमः॥
॥३०॥
न्यतयेवाभावे प्रतियोगिज्ञानजन्यज्ञानविषयतया सप्रतियोगिकत्वस्याबाधितत्वात् , स्यादनापेक्षिकी पूर्वप्रसिद्धस्वरूपव(त्वा)वदिति, न च पूर्वप्रसिद्धस्वरूपेऽपि महत्त्वादाववधिज्ञानसापेक्षसिद्धिकत्वादृष्टान्तानुपपत्तिः, महत्त्वव्यवहार एव हि तथा नतु महत्त्वमिति व्यवहारानुप्रवेशेन तस्यापेक्षिकत्वेऽपि स्वरूपतोऽतथात्वेन दोषाभावात् । यत्तु महत्त्वं न सापेक्षं, किन्तु तद्गतजातिविशेष एव, तस्य महत्त्वगतजातिसामान्यग्राहकातिरिक्तापेक्षग्रहविषयत्वेन सापेक्षत्वव्यवस्थितेः, अत एवार्द्धावृतेऽवयविनि महत्त्वग्रहेऽपि तद्गतहस्तवितस्तित्वादिजात्यग्रह आवरणप्रतिबन्धादिति नैयायिकैकदेशिभिरुच्यते, तदसत् , आवरणसंयोगस्य स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन महत्त्वगतजातिविशेषग्रहप्रतिबन्धकत्वे आवृतानावृततुल्यवंशद्वयसनिकर्षस्थलेऽनावृतवंशेऽपि महत्त्वविशेषाग्रहप्रसङ्गात् , जातिविशेषप्रकारकमहत्त्वग्रहे उक्तप्रतिबन्धकत्वे चावरणस्थले महत्त्वनिर्विकल्पकापत्तेर्दुरित्वाचेति व्यवहारानुप्रवेशेनैव महत्त्वे आवरणाभावसापेक्षत्वस्य युक्तत्वादित्यधिकं 'नयामृततरङ्गिण्यां' निरूपितमस्माभिरिति तत एवाधिगन्तव्यम् ।। ७५ ॥
"इत्यपेक्षानपेक्षाभ्यां भङ्गसप्तकसङ्गतिः। निरूपणीया सर्वत्र स्याद्वादामलबुद्धिभिः॥१॥ अर्थे नये प्रमाणे च तत्प्रयुक्ते बलाबले। प्रयोजनानुसारेण भावनीये मनीषिभिः॥शा बाह्ये चाभ्यन्तरे हेतौ निश्चयव्यवहारयोः। प्रत्यक्षेच परोक्षेच विशेषो यत्कृतोऽखिलः॥३॥ अपेक्षायेकान्तप्रशमजसमत्वामृतरसो-ल्लसचेतो वृत्तिर्यदमलगुणं पश्यति यमी। तमीशं स्याद्वादप्रणयनसमुज्जीवितजग-जनं वन्दे मन्देतरभविकसन्देहदलनम् ॥४॥ इति महोपाध्यायश्री यशोविजयगणिविरचितेऽष्टसहस्रीतात्पर्यविवरणे पञ्चमः परिच्छेदः सम्पूर्णः॥
ॐॐॐ
३३॥
For Private And Personal Use Only