________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्त्री
परिच्छेदः | पञ्चमः॥
विवरणम् ॥ ॥३०२॥
त्प्रतिपत्तौ च तस्येत्येवमित्यर्थः । उत्पत्तिपक्षेऽपि दरापेक्षाबुद्ध्यासन्नत्वस्यासन्नापेक्षाबुद्धया च दूरत्वस्योत्पत्तेरन्योन्याश्रयो भावनीयः। अन्यथा सर्वेषां धर्मधर्मिणां स्वतः सिद्धयभावे, अपेक्षैकान्तो धर्मधादीनामपेक्षाबुद्धिग्राह्यत्वैकान्तः । तस्य कथचिदिति धर्मधर्मित्वादिना प्रतिनियतबुद्धिविषयत्वस्यापेक्षिकत्वेन व्याप्यत्वादित्यर्थः । प्रत्यक्षबुद्धिप्रतिभासित्ववदिति प्रत्यक्षबुद्धिप्रतिभातदूरत्वासनत्ववदित्यर्थः ॥ ७३ ॥ विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतकान्तेप्युक्ति- वाच्यमिति युज्यते ॥७४॥ अनन्तरैकान्तयोयुगपद्विवक्षा मा भूद्विप्रतिषेधात् सदसदेकान्तवत् स्याद्वादानाश्रयणात्। तथानभिधेयत्वैकान्तेपीति कृतं विस्तरेण, सदसत्त्वाभ्यामनभिधेयत्वैकान्तवत्।७४। इति कथंचिदापेक्षिकत्वेतरानेकान्तं प्रतिपक्षप्रतिक्षेपसामर्थ्यात्सिद्धमपि दुरारेकापाकरणार्थमाचक्षते,धर्मधर्म्यविनाभावः सिध्यत्यन्योन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् ॥७५॥
धर्मधर्मिणोरविनाभावोन्योन्यापेक्षयैव सिध्यति, न तु स्वरूपं, तस्य पूर्वसिद्धत्वात् । स्वतो झेतत्सिद्धं सामान्यविशेषवत् । सामान्यं हि स्वतःसिद्धस्वरूपं भेदापेक्षान्वयप्रत्ययादवगम्यते । विशेषोपि स्वतः सिद्धस्वरूपः सामान्यापेक्षव्यतिरेकप्रत्ययादवसीयते । न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविनाभावलक्षणं स्वतःसिद्धलक्षणमपि तु धर्मधर्मिणोरपि गुणगुण्यादिरूपयोः, कर्तृकर्मबोध्यबोधकवत् [ कारकाङ्गकर्तृकर्मवत् ज्ञापकाङ्गबोध्यबोधकवच ] । न हि कर्तृस्वरूपं कर्मापेक्षं कर्मस्वरूपं वा कञपेक्षम् , उभयासत्त्वप्रसङ्गात् । नापि कर्तृत्वव्यवहारः कर्मत्वव्यवहारो वा परस्परानपेक्षः, कर्तृत्वस्य कर्मनिश्चयावसेयत्वात् , कर्मत्वस्यापि कर्तृप्रतिपत्तिसमधिगम्यमानत्वात् । एतेन बोध्यबोधकयोः प्रमेयप्रमाणयोः स्वरूपं स्वतःसिद्धं ज्ञाप्यज्ञापकव्यवहारस्तु परस्परापेक्षासिद्ध
॥३०२॥
For Private And Personal Use Only