________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री| विवरणम् ॥
२९६॥
परिच्छेदः | चतुर्थः।।
मृषैव सा तदेव प्रसक्ता । तथा च कुतः प्रधानस्याधिगतिः ? न तावत्प्रत्यक्षात् , तस्य तदविषयत्वात् । नाप्यनुमानात् , अभ्रान्तस्य लिङ्गस्याभावात् । न चागमात्, शब्दस्यापि भ्रान्तत्वोपगमात् । न च भ्रान्ताल्लिङ्गादेरभ्रान्तसाध्यसिद्धिरतिप्रसङ्गात् । एवं पुरुषचैतन्ययोराश्रयायिणोरेकत्वे तदन्यतराभावः । पुरुषे चैतन्यानुप्रवेशे पुरुषमात्रस्य, तस्य वा चैतन्यानुप्रवेशे चैतन्यमात्रस्य प्रसक्तेः सिद्धस्तावत्तदन्यतरस्याभावः परेषाम् । ततः शेषाभावस्तत्स्वभावाविनाभावित्वाद्वन्ध्यासुतरूपसंस्थानवत् । यथैव हि वन्ध्यासुतरूपस्याभावे न तस्य संस्थानं संस्थानिखभावाविनाभावित्वात् । तथा पुरुषस्याश्रयस्याभावे चैतन्यस्वाश्रयिणोप्यभावस्तदभावे पुरुषस्याप्यभावः, तत्स्वभावाविनाभावात् । तथा सति द्वित्वसंख्यापि न स्यात् , पुरुषचैतन्ययोरेकत्वमिति । तत्र संवृतिकल्पना शून्यत्वं नातिवर्तते, परमार्थविपर्ययाद्वयलीकवचनार्थवत्, परमार्थतः संख्यापाये संख्येयाव्यवस्थानात् सकलधर्मशून्यस्य कस्यचिद्वस्तुनोऽसंभवात् । | तन्न कार्यकारणादीनामनन्यतैकान्तः संभवत्यन्यतैकान्तवत् ॥ ६९॥
एकत्व इति, अस्यां कारिकायामविनाभूपदम् अविनाभाविकार्यकारणद्वयेऽर्थान्तरसंक्रमितवाच्यं, तच्च षष्ठ्यन्तमेकत्व इत्यनेनान्वेति, ततश्चाविनाभाविकार्यकारणद्वयस्यैकत्वेऽभ्युपगम्यमानेऽन्यतराभावः स्यात्तस्मिश्चापन्ने शेषस्याभाव आपद्यत | इत्यर्थः, तेन शेषस्याप्यविनाभुवोऽभाव इति व्याख्यास्यमानमार्थेन योगेन, नतु सौत्रेण, अभावान्वितस्य शेषपदा
र्थस्याविनाभूपदार्थेऽन्वयासम्भवादिति बोध्यम् ॥ ६९ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्ति- वाच्यमिति युज्यते ॥७॥
अवयवेतरादीनां व्यतिरेकाव्यतिरेकैकान्तौ न वै यौगपद्येन संभविनौ विरोधात् । तथाऽनभिलाप्यतैकान्ते स्ववचनविरोधस्तद
PI|२९६॥
For Private And Personal Use Only