SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥२९२ ॥ *** www.kobatirth.org त्वात्समवायसिद्धिः, जात्यादौ नाशापत्तिवारणाय कालावच्छिन्नेति, स्वप्रतियोगिवृत्तित्वेन हेतुत्वे तु घटादिवृत्तिध्वंसध्वंसापत्तिः, न च घटादिकालीनतद्वृत्तिक्रियासंयोगविभागद्वित्वादिनाशे व्यभिचारात् घटादिनाशक्षणवृत्तितत्समवेतनाशे हेतुत्वोत्तौ क्षणानामानन्त्येन विशिष्य नाश्यनाशकभावविश्रान्तौ गौरवात् कालिकेन घटादिनाशवृत्तिघटादिवृत्तिनाशे तेन घटादिनाशस्य हेतुत्वकल्पनात् प्रतिक्षणं तादृशस्य कस्यचिन्नाशेनानुपपत्त्यभावान समवायसिद्धिरिति वाच्यम्, तथापि लाघवात्प्रतियोगितया स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वोभयसम्बन्धेन नाशवन्नाशत्वावच्छिन्ने स्वप्रतियोगिसमवेतत्वेन नाशत्वावच्छिन्नस्य हेतुत्वेन समवायसिद्धेरप्रतिरोधादिति चेत्, न । परमाणुरूपशब्दकर्मवेगद्वित्त्वादिनाशधारावारणाय प्रतियोगिनो विशिष्यहेतुत्वाद्धंसे ध्वंसापत्यभावात् कालावच्छिन्नस्वप्रतियोगिसमवेतत्वमपहाय तत्स्थाने सन्निष्ठस्वप्रतियोगिवृत्तित्वस्य स्वप्रतियोगिवृत्तिसत्त्वस्यैव वा सम्बन्धस्याभिषेके लाघवादनतिप्रसङ्गाच्च । एतेनाश्रयनाशजन्ये नाशे प्रतियोगिनो विशिष्याहेतुत्वाद् ध्वंसे तदापतिर्दुर्वारेत्याद्यपास्तम् । अपि च रूपाभावान्यमहद्वृत्तिचाक्षुषे चक्षुः संयुक्तमहदुद्भूतरूपवद्वैशिष्ट्यस्य हेतुत्वाद्वैशिष्ट्य सिद्धिर्जायमाना समवायमपाकुरुते, न चैवमपि महत्त्वाभावरूपाभावयोश्चाक्षुषे कार्यकारणभावद्वयान्तरावश्यकत्वे रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुः संयुक्तोद्भूतरूपवद्विशेषणता महत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुः संयुक्तमहत्त्ववद्विशेषणता द्रव्यसमवेतचाक्षुषे च चक्षुः संयुक्तमहदुद्भूतरूपवत्समवायो हेतुरित्येव कल्पयितुं युक्तम्, अत एव जातिसाधारणसमवायसिद्धिरिति भट्टाचायमपि श्रद्धेयं, द्रव्यसमवेतत्रुटिचाक्षुषे व्यभिचारवारणाय द्रव्यान्यत्वविशेषणदाने रूपाभावमहत्त्वाभाव वाक्षुषनिष्ठ कार्यतावच्छेदकपर्यालोचने च गौरवात्, वैशिष्ट्यवादिनो रूपाभावान्यमहद्वृत्तिचाक्षुषत्वं महत्त्वाभावान्यरूपवद्वृत्तिचाक्षुषत्वं वा कार्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः चतुर्थः ॥ ॥२९२॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy