SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir नहीत्यादिना प्रागासीत् पश्चाद्भविष्यतीत्येवं कालभेदात् , इतरस्माद्देशादितरत्रास्तीत्यनेन च देशभेदात् प्रतीतिसाक्षिकः सत्तासमवायभेद उपदर्शितः । यदि च तत्तत्कालदेशरूपविशेषणमेदेऽपि सत्ताया न भेदः, तर्हि तद्वदेवाभावस्यापि | स माभूत , विरुद्धधर्माध्यासेनासत्तामेदे च सत्ताभेदोऽपि तद्वदेवास्त्विति सिद्धं द्वयोस्तुल्यकक्षतया विश्वरूपत्वं, भावत्वाभावत्वयोरेवैक्यं नतु भावाभावयोरिति तु मन्दं, विशेषणांश इव विशेष्यांशेऽप्यनुगतप्रतीतेस्तौल्याद्विशेषणभेदेन भेदस्य चोभयत्राविशेषात् सामान्यविशेषोपयोगाभ्यां वैश्वरूप्यस्यैव सिद्धेरित्यभिप्रायवानाह-यदि पुनरित्यादिना ॥६५॥ सर्वथानभिसंबन्धः सामान्यसमवाययोः । ताभ्यामर्थो न संबद्धस्तानि त्रीणि खपुष्पवत् ॥६६॥ समनुषज्यन्ते इति शेषः। तथा हि । सामान्यसमवाययोः परस्परतः संबन्धासंभवात् ताभ्यामर्थोपि न संबद्धः । कुतस्तयोरनभिसंबन्ध इति चेत्, संयोगस्य समवायस्य चानभ्युपमगमात् , सामान्यं समवायीति विशेषणविशेष्यभावस्य चासंभवादनवस्थाप्रसनाच । तथैकार्थसमवायस्य चानवकाशात् समवायस्य क्वचिदसमवायात् संबन्धान्तरानिष्टेः सर्वथानभिसंबन्धस्तावत्सिद्ध एव । ततः परस्परतोऽनसंमिबद्धाभ्यां सामान्यसमवायाभ्यामर्थोपि द्रव्यगुणकर्मलक्षणो न संबद्धः शक्यते वक्तुं, यतस्तत्र सत्तासमवायः स्यात् । ततस्त्रीण्यपि नात्मानं विभृयुः कूर्मरोमादिवत् । परस्परमसंबद्धानि ह्यर्थसमवायसामान्यानि न सन्त्येव । न चासतां कर्तृत्वम् । नापि कश्चिदात्मा संभवति यस्य कर्मत्वम् । न च कर्तकर्मत्वाभावे तान्यात्मानं बिभृयुरिति शक्य वक्तुं, कर्तरि लिङो विधानात्कर्मणि विभकिनिर्देशाच । स्यान्मतं 'परस्परमसंबद्धानामपि स्वरूपसत्त्वप्रसिद्धेर्नार्थसमवायसामान्यानामसत्त्वम् । कमरोमादीनां स्वरूपसत्त्वाभावाच विषमोयमुपन्यासः' इति तदयुक्तं, द्रव्यगुणकर्मणां स्वरूपसत्त्वोपगमे सत्तासमवायस्य वैयात्सामान्यादिवत् , सामान्यादीनां For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy