________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
॥२८८॥
www.kobatirth.org
वृत्तेरभ्युपगमात् तयोरत्यन्तभेदानिष्टेर्देशकालाभ्यामभेदाविरोधे तथैवावयवावयव्यादेस्ताभ्यामभेदोस्त्वविरुद्धः । स च कथंचिदभेदसाधनः स्यात् । न चासाविष्यते, अपसिद्धान्तप्रसङ्गात् । तस्मादङ्गाङ्गयादेरत्यन्तभेदात् तद्देशकालविशेषेणापि वृत्तिः प्रसज्येत घटवृक्षवत् । वर्णादिभिरनैकान्तिकत्वमित्ययुक्तं, तद्व्यतिरेकैकान्तानभ्युपगमात् । यथैव हि वर्णरसगन्धस्पर्शानां स्वाश्रयादत्यन्तभेदो नेष्टो दृष्टो वा तथा परस्परतोपीति । नाप्येतैः पक्षैकदेशात्मभिर्व्यभिचारो नामातिप्रसङ्गात् । यदि पुनः कार्यकारणादीनां समानदेशकालत्वमुररीक्रियते तथैव सिद्धान्तावधारणादिति मतं, तदाप्यवयवावयविनोः समानदेशे वृत्तिर्न भवेत्, मूर्तिमत्त्वात्खरकरभवत्, मूर्तयोः समानदेशत्वविरोधात् । वातातपयोः समानदेशत्वदर्शनादविरोध इति चेत्, न, तयोः स्वावयवदेशयोरवयविनोरभ्युपगमात् । तन्तुपटयोरपि स्वावयवदेशत्वात्समानदेशत्वाभावो न दोष इति चेत्, न, परमाणुद्व्यणुकयोर्भिन्नदेशत्वाभावात्समानदेशत्वमपि न भवेदिति दोषोद्भावनात् । व्यणुकस्य परमाणुदेशत्वात्परमाणो रनंशस्याप्याश्रयान्तरस्थत्वात्तयोरसमानदेशतैवेति चेत्, न, तथा लौकिकदेशापेक्षया समानदेशत्वोपगमस्य प्रसङ्गात् । स च मूर्तयोर्न भवेदिति सूक्तमेव दूषणम् । कथमेवमनेकान्तवादिनामेकाकाशप्रदेशेऽसंख्येयादिपरमाणूनामवस्थानं न विरुध्यते इति चेत्, तथावगाहनविशेषादेकत्व परिणामादिति ब्रूमहे । नह्येकं मूर्तिमद्द्रव्यमेकत्र देशेऽवतिष्ठमानं विरुद्धं नाम, अतिप्रसङ्गात् | संयोगमात्रेण तु स्थितानामेकत्वपरिणामनिरुत्सुकानां नैकाकाशप्रदेशेवस्थानमवगाह्नविशेषाभावादने काकाशप्रदेशवृत्तित्वसिद्धेः इति स्याद्वादिनां न किंचिद्विरुद्धम् ॥ ६३ ॥ स्यान्मतम्,
तथैव युगपत्संयोगवृत्त्यादिनैव, अभेदसाधनोऽभेदव्यवहारसाधनः, तथोक्तवदभ्युपगमे, एकत्वपरिणामनिरुत्सुकानामिति, यद्यपि द्रव्यत एकत्वपरिणामनिरुत्सुकानामप्यानुपूर्व्यनानुपूर्व्यवक्तव्यद्रव्याणामनन्तानामेकाकाशप्रदेशा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदचतुर्थः ॥
॥२८८॥