________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shet Kailassagersuri Gyanmandir
अष्टसहस्री| विवरणम् ॥
परिच्छेदचतुर्थः॥
*%
॥२८७॥
%
%
%
च कालघटितसम्बन्धेन निरासादित्यर्थः। तथा चानवस्थानादिति संयोगतत्सम्बन्धतत्सम्बन्धादिचिन्तयाऽनिष्टापत्तेरि| त्यर्थः । 'कुत इति' निरन्तरोभयद्रव्यनिमित्तादेव संयोगव्यवहारोपपत्तेरनन्तरपरम्परसंयोगभेदस्य चान्यथानुपपत्तेरिति भावः। ननु वृत्तिविकल्पदोषः स्याद्वादेऽपि किं न स्यादित्याशंक्य भेदाभेदशबलैकवस्तुस्वरूपत्वे देशकात्न्यवृत्तिव्यवहारस्य चित्रज्ञानसामान्यविशेषदृष्टान्तेन यथाविवक्षं सम्मिलितस्यैवोपपत्तेर्न तद्दोषावकाश इति समाधित्सुराह-नन्वेवमपीत्यादिना, तदुभयरूपत्व इति, न च पारिभाषिकमुभयरूपत्वमुभयपदार्थतादात्म्यमापादयितुमनीश्वरमिति शङ्कनीयम् । अनुवृत्तिव्यावृत्तिबुद्धिहेतुतया सिद्धस्य पदार्थद्वयस्यार्थतस्तादात्म्यापादनाविरोधात , अन्त्यविशेषस्य तु “विशेषोऽपि न पदार्थान्तरं मानाभावाद्विनापि व्यावर्तकधर्म विशेषाणामिव नित्यानामपि द्रव्याणां खत एव व्यावृत्तत्वात् , योगिनो विशेषमीक्षन्ते प्रत्यक्ष(त) एवेति चेत् , त एव तर्हि संशयपथं पृच्छयन्तां किमु तेऽतिरिक्तं विशेषमीक्षन्ते नवेति" ग्रन्थेन पदार्थतत्त्वविवेके शिरोमणिभट्टाचार्यैरेव निराकरणात् । अथ समवायित्वे सति समवायियद्यक्तेर्यव्यावृत्तं यन्नित्यं तत्परस्परासमवेतसमवेतशून्यधर्मसमवायीति व्याप्तिरात्मत्वमादाय घटपटादिव्यावृत्तात्मादाववधारिता, अत्र सत्तादिकमादाय सिद्धसाधनवारणाय परस्परासमवेतेति, एकत्वादिकमादाय तद्वारणाय समवेतशून्येति, प्रमेयत्वादिकमादाय तद्वारणाय समवायीति, अभावे व्यभिचारवारणाय हेतौ समवायित्वे सतीति, घटादावभावव्यावृत्तिसत्त्वेनाभावसमवेतत्वाप्रसिद्ध्या तदभावाप्रसिद्धेाप्यत्वासिद्धिः स्यादिति तद्वारणाय हेतौ समवायित्वं यद्यक्तेविशेषणम् , अनुपादेयमेव वा तत् , साध्ये परस्परासमवेतत्वं परित्यज्य तत्स्थाने खासमवायितत्वेत्यस्य वक्तव्यत्वात् । साध्ये समवायित्वं स्वाश्रयसमवेतत्वादिपरंपरासाधारणं, नातः सजातीयघटद्वये
%
%
%
२८७॥
%
%
For Private And Personal Use Only