SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदचतुर्थः॥ ॥२८६॥ प्रबोधकहेतूनपेक्षते । ते च बहिर्भूता एवार्थाः। इति न विज्ञानमात्र तत्त्वमनुषज्यते इति चेत्, न, विज्ञानविशेषादेव वासनाप्रबोधस्य सिद्धेः, तदभावे बहिरर्थस्य सत्तामात्रेण तदहेतुत्वादन्यथातिप्रसङ्गात् । न च नीलादिविज्ञानादेव तद्वासनाप्रबोधस्तत्प्रबोधादेव नीलादिज्ञानमिप्यते, यतः परस्पराश्रयः स्यात् , तदधिपतिसमनन्तरादिविज्ञानानामेव नीलादिज्ञानजनकानां तद्वासनाप्रबोधकत्वात् तद्वासनानामपि तत्कारणविज्ञानेभ्यः प्रबोधोपगमात् । इत्यनादिरयं वासनासरित्परिपतितस्तत्प्रबोधप्रत्ययसार्थस्तद्विज्ञानप्रवाहश्च । इति किं बहिरथैः ? कल्पयित्वाप्येतान्विज्ञानानि प्रतिपत्तव्यानि, तैर्विना तद्व्यवहाराप्रसिद्धः । सत्सु च तेषु बहिरर्थाभावेपि स्वप्नादिषु तद्व्यवहारप्रतीतेरल बाह्यार्थाभिनिवेशेन । ततो बहिरर्थ व्यवस्थापयितुमनसा नादृष्टमात्रनिमित्तो विशेषणविशेष्यत्वप्रत्ययोनुमन्तव्यः, तस्य द्रव्यादिप्रत्ययवद्वहिरर्थविशेषविषयत्वस्यावश्यमाश्रयणीयत्वात् । तथा चानवस्थानात् कुतः संयोगिभ्यां संयोगोर्थान्तरभूतः सम. वायवृत्त्या तयोरिति व्यपदिश्येत ? स एव च स्थाल्यां दनो वृत्तिरिति न तेनानैकान्तिको हेतुः स्यात् । तत एव न विरुद्धः, सर्वथार्थान्तरभूतस्य कचिद्वृत्त्युपलब्धेरभावात् । ततो निरवद्यमिदमनुमानं भेदपक्षस्य बाधकम् । इति तत्र प्रवर्तमानो हेतुः कालत्ययापदिष्ट एव, प्रत्यक्षविरुद्धत्वाश पक्षस्य, अवयवावयव्यादीनां कथंचित्तादात्म्यस्यैव साक्षात्करणात । नन्वेवमपि वृत्तेर्दोषो यथोपवर्णितः स्याद्वादिना प्रसज्यते इति चेत्, नार्य प्रसङ्गोऽनेकान्ते, कथंचित्तादात्म्यावेद्यवेदकाकारज्ञानवत् । यथैव हि ज्ञानस्य वेद्यवेदकाकाराभ्यां तादात्म्यमशक्यविवेचनत्वात् किमेकदेशेन सर्वात्मना वेति विकल्पयोर्न विज्ञानस्य सावयवत्वं बहुत्वं वा प्रसज्यतेनवस्था वा, तथाऽवयव्यादेरष्यवयवादिभ्यस्तादात्म्यमशक्यविवेचनत्वादेव नैकदेशेन प्रत्येकं सर्वात्मना वा, यतस्ताथागतः सर्वथा भेदे इवावयवावयव्यादीनां कथंचित्तादात्म्येपि वृत्ति दूषयेत् । एतेन वैशेषिकोपि न कथंचित्तादात्म्ये वृत्तिविविकल्पादिदूषणमापादयितुमीशः, सामान्यविशेषवत्तत्र ॥२८६॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy