________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
R
अष्टसहस्त्री विवरणम्।।
तृतीयः॥
॥२८॥
EAC
रतीयन्याय इति किमतिविस्तरेण, तत्त्वमसीत्यादिवाक्यार्थस्तु केवलज्ञानादिपरिणतिविशिष्टपरमात्मरूपतत्पदार्थेन सह सम्य- | ग्दर्शनादिपरिणतिविशिष्टान्तरात्मत्वंपदार्थस्य भेदाभेदतात्पर्येण समाधेयः स्वसमयाविरोधिभिः सम्यग्दृष्टिभिरिति किम- | प्रकृतेन । किश्च भावाभावयोः प्रतियोग्यनुयोगिभावस्य विशेषणविशेष्यभावस्य च स्वरूपसम्बन्धतयैव विश्राम इति " सर्व सर्वात्मकं जगत् " आसत्तिपाटवाभ्यासप्रयोजनादिना च प्रतिनियतपर्यायग्रह इति नातिप्रसङ्गः, अत एवैकज्ञत्वसर्वज्ञत्वयो - न्तरीयकत्वं सिद्धान्तसिद्धम् , तथा चानुवृत्तिव्यावृत्तिद्वारा स्वपरपर्यायोत्पादव्ययावच्छिन्नं धौव्यं सर्वत्रानायाससिद्धमिति द्रष्टव्यम् । न च विरोधः, पर्यायत्वावच्छेदेनोत्पादव्यययोर्द्रव्यत्वावच्छेदेन ध्रौव्यस्य चाविरोधात् , अन्यथा गोत्वावच्छेदेन गव्यश्वमेदस्य ब्रह्मत्वावच्छेदेन तदभेदस्य चाविरोध औपनिषदाभिमतोऽपि कथं स्यादित्युपरम्यते । "
स्यान्नित्यमेवेत्यादि, अत्र च नित्यत्वानित्यत्वादिव्यवहारे आकाशघटादौ द्रव्यार्थत्वपर्यायार्थत्वयोस्तुल्यवदाकाशत्वघ४ टत्वादीनां च स्यात्पदद्योतनमर्यादया प्रतिस्वं ग्रहानातिप्रसङ्गः, नयवाक्येऽपि यद्धर्मविशिष्टविशेष्यवाचकपदसमभिव्याहारेण
नित्यत्वादिविशिष्टवाचकं पदं प्रयुज्यते तद्धर्मावच्छेदेन तत्र नित्यत्वादिबोधन एव तत्साकांक्षमित्याकाशमनित्यं घटो नित्यइत्यादेयवाक्यस्य न प्रयोगः, व्यापकसामानाधिकरण्यरूपव्याप्तिपक्षे धूमो वहिव्याप्यो न रासभस्तथेत्यादेरित्थमेव न्यायाभियुक्तैरूपपादितत्वादिति शिवम् ॥ ६॥ " जगज्जैत्रं पत्रं शुचिनयपवित्रं किल मया । यमालम्ब्य न्यस्तं कुमतशतमस्तं गमयति ॥ असौ नित्यानित्याद्यखिलगमभङ्गप्रणयने । पटिष्ठः स्याद्वादो दिशतु मुदमुज्जागरधियाम् ॥१॥
॥२८॥
AC5
For Private And Personal Use Only