SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः तृतीयः॥ ॥२८२॥ विधक्षयोपशमाभावात्तथात्वेन न प्रतिपद्यन्ते, प्रत्युत परिज्ञातप्रवचनोपनिषदस्तथात्वेन प्रतिपद्यमानान् प्रति प्रत्यवतिष्ठन्ते, तान् प्रतीदमाचक्ष्महे । सर्व खल्खादीपमाव्योमपदार्थजातं न सर्वथाऽनित्यं, नापि सर्वथा नित्यं, प्रदीपादेरपि सर्वथाऽनित्यत्वे पुद्गलपरमाणुत्वादिनाऽपि ध्वंसप्रसङ्गात् । अवयवावयविभावस्य समवायादिसम्बन्धनिबन्धनत्वे तत्रापि सम्बन्धान्तरान्वेषणेऽनवस्थानात्तादात्म्येनैव तत्त्वव्यवस्थितौ परमाणुपर्यन्तमपि कथश्चिदवयव्यभेदसिद्धेः, आकाशादेरपि सर्वथा नित्यत्वे संयोगादिस्वभावपरित्यागेन विभागादिस्वभावोपादानानुपपत्तेः, पूर्वरूपपरित्यागस्यैवानित्यत्वलक्षणत्वात् , संयोगविभागादिऋमिकनानाकार्यजननैकस्वभावमेवाकाशादिकमिति न स्वभावमेद इति चेत् , अयमेवैकानेकस्वभावसंवलनवादः, अन्यथा येन स्वभावेन संयोगजनकमाकाशं तेनैव विभामजनकमित्यभ्युपगमे संयोगविभागयोरेकत्वप्रसङ्गः, किं च जनकत्वं शक्तिरेवेति कार्यभेदेन तद्भेदावश्यकत्वे स्वभावभेदो दुष्परिहरः, शक्तिशक्तिमतोरपि तादात्म्यातिरिक्तसम्बन्धाभावात् , तथा च वस्तुनः कथश्चिन्नित्यानित्यत्वसिद्धौ येन रूपेण नित्यत्वं तेन रूपेण ध्रौव्यं, येन चानित्यत्वं तेनोत्पादव्ययावित्येवं त्रिलक्षणं जगदिति प्राचीनः परिष्कृतः पन्थाः । वस्तुतः क्षणसम्बन्धः क्षणे तादात्म्यरूपः क्षणविशिष्टपदार्थे च परैर्विशेषणताविशेषरूपः कल्पनीय इति गौरवं, मया च सर्वत्र तादात्म्यरूप एव कल्पनीय इति लाघवाच्छुद्धर्जुसूत्रनयादेशेन सर्वस्य क्षणपर्यायात्मकत्वसिद्धिः, अशुद्धर्जुसूत्रनयादेशेऽपि प्रतीतिव्यवहारायनुरोधेन विशिष्टाविशिष्टयोर्मेदधौव्ये क्षणविशिष्टपदार्थरूपपर्यायभेदस्तावदावश्यकः, मच विशिष्टभेदेऽनन्तपदार्थकल्पनापत्तिगौरवं, परस्यापि विशिष्टनिरूपिताधिकरणतानन्त्यकल्पनेन तौल्यात् , न च द्रव्यत्वादेरेव गुणकर्मान्यत्वविशिष्टसत्ताधारतात्वकल्पनात्परस्य नाधिककल्पनमिति वाच्यम् । तथापि पटत्वाभावविशिष्टसत्ताधार ॥२८२॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy