________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
तद्वत् । विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात् तद्वदेव । इति योजनात् सामर्थ्यादुत्पादव्ययध्रौव्ययुक्तं सदिति प्रकाशितं भवति, तदन्यतमापाये सत्त्वानुपपत्तेः । प्रत्येकमुत्पादादीनां सत्त्वे त्रयात्मकत्वप्रसङ्गादनवस्थेत्यपि दूरीकृतमनेन, तेषां परस्परमनपेक्षाणामेकशः सत्त्वनिराकरणात् ॥ ५८ ॥ किं च,___ यस्तु ततोऽन्य इति यस्तु तत उपादानक्षयादन्यक्षयस्तस्य नोपादेयोत्पादहेत्वन्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकप्रति-2 योगित्वमित्यर्थः । भेदसङ्घातेभ्य इति अत्रास्मदीयाः श्लोकाः “संयोगाच्च विभागाच्च द्रव्यमुत्पद्यते द्वयात् । वैजात्यं वापि वैशिष्ट्यं कार्ये तत्र प्रकल्प्यते ॥१॥ अणुवणुकसंयोगादणुकोत्पत्तिमिच्छताम् ॥ तद्विभागादणूत्पत्तौ प्रद्वेषः किंनिबन्धनः ॥२॥ केयूरकुण्डलीभावे तत्र स्वर्णवदिष्यताम् ।। साधारणमुपादानं क्ष्मादि किं चिन्तयात्र नः ॥ ३॥ तादात्म्यनियताधाराधेयभावनिबन्धनम् ।। कारणं प्रत्युपादेयं विभिन्न परिणामि वा ॥४॥ तावत् संघातभेदा वा हेतुस्तच्छालि वस्तु वा । गच्छत्यविनिगम्यत्वमप्यत्रैतत् सहायताम् ।। ५॥ जात्यन्तरात्मके वस्तुन्येवं किञ्चिन्न दुष्यति । कार्याकार्यभेदाभेद-व्यवसायव्यवस्थितः ॥ ६॥ संयोगवद्विभागेऽपि वैजात्यस्य व्यवस्थितौ ॥ एकस्य हेतुताऽन्यस्य नेति मोहविजृम्भितम् ॥ ७॥ संयोगे समवायश्चेद्धेतुताया नियामकः । मृद्रव्ये सविभागे स्तादंशांशो वा विभज्यताम् ॥ ८॥ स्वध्वंसत्वेन योगेनो-पादानं हेतुरस्तु वा ॥ तद्र्व्यव्याप्तिरत्र स्या-त्रभोव्याप्तिर्वा दीर्घिकी ॥९॥ संयोगजन्यता जन्य-द्रव्ये हि भवतोच्यते ।। मया तत्र विजातीय इति गौरवमीः कुतः ॥१०॥" तथाप्रतीतेरिति त्यक्तात्यक्तात्मरूपतयाप्रतीरित्यर्थः । असाधारणेत्यादि आतानवितानरूपभावप्रत्यासत्तिमत्तंतुद्रव्यप्रत्यासत्तिः पटोपादानत्वनिबन्धनमित्यर्थः॥५८ ॥
SARGESSAGE
For Private And Personal Use Only