SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir णत्वादिदमित्युल्लेखस्य च प्रत्यक्षत्वात् । न चैताभ्यां प्रत्ययविशेषाभ्यामतीतवर्तमानविशेषमात्रगोचराभ्यामन्यत् संवेदनमेकत्वपरामर्श समनुभूयते, यत्प्रत्यभिज्ञानं नाम प्रमाणं स्यान्नित्यत्वस्य साधकम् । अतः स्वरूपासिद्धो हेतुरिति कश्चित् , सोपि प्रतीत्यपलापी, पूर्वोत्तरविवर्तस्मरणदर्शनाभ्यामुपजनितस्य तदेकत्वसंकलनज्ञानस्य प्रत्यभिज्ञानत्वेन संवेद्यमानस्य सुप्रतीतत्वात् । न हि स्मरणमेव पूर्वोत्तर-1 विवर्तयोरेकत्वं संकलयितुमलम् । नापि दर्शनमेव । तदुभयसंस्कारजनितं विकल्पज्ञानं तत् संकलयतीति चेत् , तदेव प्रत्यभिज्ञानं सिद्धम् । न च तदकस्मादेव भवतीति निर्विषय, बुझ्यसंचरदोषात् । न हि प्रत्यभिज्ञानविषयस्याविच्छिन्नस्य नित्यत्वस्याभावे बुद्धः संचरण नाम, निरन्वयविनाशाबुद्ध्यन्तरजननानुपपत्तेः, यदेवाहमद्राक्षं तदेव स्पृशामीति पूर्वोत्तरपरिणामयोरेकद्रव्यात्मकत्वेन गमनासंभवात् , ततोन्यस्य बुद्धिसंचरणस्येहाप्रस्तुतत्वात् । तथाविधैकत्ववासनावशाबुद्धिसंचरणं न पुनः कथंचिन्नित्यत्वादिति चेत्, न, कथंचिन्नित्यत्वाभावे संवेदनयोवास्यवासकभावायोगात्कार्यकारणभावविरोधात् । ततो बुद्धिसंचरणान्यथानुपपत्तेर्नाकस्मिकं प्रत्यभिज्ञानं विच्छेदाभावाच्च । इति कथंचिन्नित्यं वस्तु प्रसाधयति । तथा सर्व जीवादि वस्तु कथंचित् क्षणिक, प्रत्यभिज्ञानात् । न चैतत् क्षणिकत्वमन्तरेण भवतीत्यकस्मादुपाजयते, तद्विषयस्य कथंचित्क्षणिकस्य विच्छिदऽभावात् । न च तदविच्छिदसिद्धा, कालभेदात् , कालभेदस्य च पूर्वोत्तरपर्यायप्रवृत्तिहेतोरसिद्धौ बुद्ध्यसंचरणदोषात् । न च तदिदमिति स्मरणदर्शनबुद्ध्योः संचरणापाये प्रत्यभिज्ञानमुदियात् , तस्य पूर्वापरपर्यायबुद्धिसंचरणनिबन्धनत्वात् । ननु च सर्व नित्यं सत्त्वात् क्षणिके स्वसदसत्समयेर्थक्रियानुपपत्तेः सत्त्वविरोधात् , इत्यनुमानात् क्षणिकत्वस्य निराकृतेर्न प्रत्यभिज्ञानं तत्साधकं, प्रधानलक्षणविषयाविच्छेदसद्भावात् कालभेदासिद्धेय्यसंचरणदोषानवकाशाबुद्धेरेकत्वगमनस्य संचरणस्य सिद्धेरिति चेत् , न, सर्वथा क्षणिकत्वस्यैव बाधनात् , कथंचित्क्षणिकस्य स्वसत्समये स्वासत्समये चार्थक्रियोपलब्धेः। For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy