________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यात् चिकोर्पोरेवेतिकर्तव्यतासु कर्तृत्वात्कर्तुरेव च कर्मबन्धाद्वद्धस्यैव विनिर्मुक्तः सर्वथा विरोधाभावात् । क्षणिकवादिनामपि संतानस्यैकत्वात्पूर्वपूर्ववासनोपहितोत्तरोत्तरचित्तविशेषस्योत्पत्तेरनुपालम्भ इति चेत्, न संतानस्यावास्तवत्वाद्वास्यवास कभावस्याप्यसंभवादव्यभिचारकार्यकारणभावस्यापि तन्नियमहेतुत्वायोगात् सुगतेतरचित्तसंतानेष्वपि भावादिति निरूपितत्वाच्च क्षणिकैकान्तवादिनाम् ॥ ५१ ॥
'निरन्वयादिति ' निरन्वयशब्दो निर्वंशत्वाध्यवसायेनान्वयाभाववादिनं सौगतं लक्षयंस्तस्य निन्द्यतामभिव्यनक्ति इतिकर्त्तव्यतासु क्रमनियतासु क्रियासु, अचिकीर्षत्वादिति न विद्यते चिकीर्षा यस्य क्षणस्य तत्त्वादित्यर्थः । ' तदुभयेति' चिकीर्षाकर्तृक्षणविनिर्मुक्तस्य तृतीयस्य बद्धत्वादित्यर्थः । तदविनिर्मुक्तेर्वद्धक्षणस्यामोक्षात्, अभिधेयत्वमभिधामात्रेणात्मन आश्वासः कुर्वतो वा यत्किञ्चनकारित्वम् अबुद्धिपूर्वकप्रयासमात्रम्, पूर्वपूर्वक्षणानामुत्तरत्रानन्वयेन कार्यकारणसामानाधिकरण्याद्यभावादित्यर्थः ॥ ५१ ॥
अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसंततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥ ५२ ॥ सर्वथाप्यहेतुं विनाशमभ्युपगम्य कस्यचिद्यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ? तथा निर्वाणं संतानसमूळतलप्रहाणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाक्काय कर्मान्तर्व्यायामाऽजीवस्मृतिसमाधिलक्षणाष्टाङ्गद्देतुकं यदि ब्रूयात्तदापि कथं स्वस्थः ? तयोरहेतुकविनाशाभ्युमहिंसकत्वयोरष्टाङ्गहेतुकत्वनिर्वाणवचनयोश्चान्योन्यं विप्रतिषेधात् सुगतस्य सर्वज्ञत्वेतरवत् ॥ ५२ ॥
'सम्यक्त्वेत्यादि,' सम्यक्त्वं बुद्धधर्मश्रद्धा १, संज्ञा ख्याद्यभिधानं २ संज्ञी ख्यादिरेव ३ वाक्कायव्यापारस्तत्कर्म ४ अन्तयामो वायुनिरोधः ५ अजीवो जीवाभावो नैरात्म्यमिति यावत् ६ स्मृतिः पिटकत्रयार्थानुचिन्तनं ७
४६
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*