________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
विधिनिषेधयोरुपलम्भात् तथैव प्रवृत्तिनिवृत्त्योरविसंवादसिद्धेरन्यथा विसंवादात् । ततः सूक्तमिदम् “ असद्भेदो न भावस्तु स्थान विधिनिषेधयोः॥” इति कथंचित्सद्विशेषस्यैव पदार्थस्य विधिनिषेधाधिकरणत्वसमर्थनात् ॥४७॥ तथा च पराभ्युपगतमेव तत्त्वं सर्वथानभिलाप्यमायातमित्यभिधीयते
न चैतद्विरुद्धमिति एतदभिलाप्यस्यैवानमिलाप्यत्वं विशेषणविशेष्यरूपस्यैव चाविशेष्यविशेषणत्वम् । ननु भावाभावोभयकरम्बितैकवस्त्वभ्युपगमात्कथञ्चिदनभिलाप्यत्वादेरप्युभयाश्रयत्वादेको द्वाविति वदभावोऽनभिलाप्य इत्यादि कथं न विप्रतिषिद्धमिति चेत्, उभयत्वादेः पर्याप्यनवच्छेदकत्वात् पर्याप्यन्यसम्बन्धस्य विशेषणसंसर्गत्वाद्वेत्याशयवानाह-भाष्यकृतअभावोऽनभिलाप्य इत्यादिना, तदेव विवृणोति वृत्तिकृत् ययैव ह्यभाव इतीत्यादिना, असफ़ेद इति असदन्तरम् ॥४७॥ अवस्त्वनभिलाप्यं स्यात्सर्वान्तः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥४८॥
सकलधर्मविधुरमधर्मिस्वभावं तावदवस्त्वेव सकलप्रमाणाविषयत्वात् । तदेवानभिलाप्यं युक्तं, न पुनर्वस्तु प्रमाणपरिनिष्ठितम् । तदपि सन्तैिः परिवर्जितमवस्तु परपरिकल्पनामात्रादभिधीयते न पुनः प्रमाणसामर्थ्यात् , कस्यचिद्वस्तुन एव स्वद्रव्याद्यपेक्षालक्षणप्रक्रियाया विपर्यासादवस्तुत्वव्यवस्थितेः, स्वरूपसिद्धस्य घटस्य घटान्तररूपेणाघटत्ववत् कस्यचिद्वस्तुनो वस्त्वन्तररूपेणावस्तुत्वप्रतीतेः । ननु परस्परविरुद्धमिदमभिहितं वस्तुत्वेतरयोरन्योन्यपरिहारस्थितित्वादिति चेद्भावव्यतिरेकवाचिभिरपि वाक्यतामापन्नैर्भावाभिधानानात्र किंचिद्विरुद्धम् । न ह्यब्राह्मणमानयेत्यादिशब्दैर्वाक्यत्वमुपगतैाह्मणादिपदार्थाभाववाचिभिस्तदन्यक्षत्रियादिभावाभिधानमसिद्धं येनावस्त्वनभिलाप्यं स्यादिति शब्देन वाक्यतामुपगतेन वस्तुशून्यत्ववाचिना वस्त्वन्तराभिधानं विरुध्यते । अतः सूक्तं 'यवस्तु तदनभि
For Private And Personal Use Only