SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम्॥ ॥२५९॥ दपि दोषो मा भूत् । नानाकार्यदर्शनात्तजननशक्तिरेका तादृश्यनुमीयते, न पुन नाशक्तय इति चेत्तर्हि नानारूपादिज्ञाननिर्भासभेदा-1&ापरिच्छेदत्तादृशैकस्वभावो द्रव्यस्य व्यवस्थाप्येत, न पुनर्नानारूपादय इति समः समाधिः। प्रदीपक्षणस्यैकस्य वर्तिकामुखादिसहकारिसामग्री- स्तृतीयः।। भेदात् तद्दाहादिविचित्रकार्यजननं न पुनः स्वभावभेदादिति चेत्तर्हि कर्कटिकादिद्रव्ये चक्षुरादिसहकारिसामग्रीभेदादूपादिज्ञाननि सभेदो न पुना रूपाद्यनेकस्वभावभेदादिति निश्चीयते । युगपदेकार्थोपनिबद्धदृष्टीनामपि भवितव्यमेव प्रतिभासभेदेन, कारणसामग्रीभेदात् । अन्यथा दर्शनभेदोपि मा भूत् । न चैवं, प्रत्यासन्नेतरयोर्वेशद्येतरनिर्भासोपलब्धेः। सेयमुभयतः पाशारज्जुः सौगतानां, रूपादिज्ञाननिर्भासभेदानुपादिभेदं व्यवस्थापयतः प्रदीपक्षणस्यैकस्य कार्यवैचित्र्यात् स्वभावभेदप्रसङ्गात् , तस्यैकस्वभावत्वं व्यवस्थापयतो रूपादिनानात्वाव्यवस्थापनात् । सकृत्कारणखभावभेदमन्तरेण यदि कार्यनानात्वं, क्रमशोपि कस्यचिदपेक्षितसहकारिणः कार्यसन्ततिः किं न स्यात् ? सहकारिणस्तद्धेतुस्वभावमभेदयन्तोपि कार्यहेतवः स्युः क्षणक्षयवत् । यथैव हि क्षणिकस्वलक्षणस्य नानाकार्याणि युगपदुपजनयतः सहकारिकारणानि न कश्चिदतिशयं ततो भिन्नमभिन्नं वा समुपजनयन्ति, किं तर्हि ? कार्याण्येव भिन्नस्वभावानि विदधति । तथैव नित्यस्यापि । न हि कादाचित्कानि तत्तत्कर्तुं समर्थानीति स्थिरोथस्तत्करणस्वभावं जहाति तद्वद्धिपूर्वकत्वाभावात् क्षणिक सामग्रीसन्निपतितककारणान्तरवत् । न हि क्षणिकक्षित्युदकादिसामग्र्यामन्त्यक्षणप्राप्तायामङ्खरजननसमर्थायां सत्यां तत्सन्निपतितं बीजं कारणान्तरमङ्कुरजननस्वभावं जहाति, तस्य तदकार्यत्वप्रसङ्गात् । न हि हेतवः परस्परमीर्ध्यावलिप्ताः कचिदेकत्र कार्ये, येनैकस्य तत्र व्यापारेऽपरे निवर्तेरन् । क्षणिकोर्थः स्वान्त्यकारणसामग्रीसन्निपतितः स्वकार्यकारी तादृशस्वहेतुस्वभावादुत्पन्नत्वात् , न पुनर्नित्य इति कल्पयित्वापि स्वहेतुप्रकृति भावानां स्वप्रकृतिरवश्यमन्वेष्या, तत्स्वभाववशात् तत्कारणप्रकृतिव्यवस्थापनात् तदयमकारणोपि स्वभावनियतोर्थः ॥२५९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy