SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ||२५८|| www.kobatirth.org हेतुरसिद्धो न साध्यसाधनायालमिति, तदसत्, भिन्नकालक्षणानामसंभवद्वासनत्वादकार्यकारणवत् । पूर्वमेव चित्तमुत्तरोत्पत्तौ वासना तत्कारणत्वादिति चेत्, न, निरन्वयक्षणिकत्वे कारणस्यैवासंभवात् । तथाहि । न विनष्टं कारणमसत्त्वाच्चिरतरातीतवत् । समनन्तरातीतं कारणमिति चेत्, न, समनन्तरत्वेप्यभावाविशेषात् । न च पूर्वस्योत्तरं कार्यं, तदसत्येव हि भावाद्वस्त्वन्तरवदतिक्रान्ततमवद्वा, यतः पूर्वस्य कारणत्वनिर्णयः स्यात् । तदन्वयव्यतिरेकानुविधानादुत्तरं तत्कार्यमिति चेत्, न तस्यासिद्धेः । न हि समर्थेऽस्मिन् सति स्वयमनुत्पित्सोः पञ्चाद्भवतस्तत्कार्यत्वं समनन्तरत्वं वा नित्यवत्, तद्भावे स्वयमभवतस्तदभावे एव भवतस्तदन्वयव्यतिरेकानुविधानविरोधात् । क्षणिकैका कारणाभावाविशेषेऽपि कार्योत्पत्तिसमयनियमाव कुप्तौ कस्यचित्कौटस्थ्येपि तत्करणसमर्थसद्भावाभेदेऽपि कार्यजन्मनः कालनियमः किन्न स्यात ? विशेषाभावात् । यथैव हि स्वदेशवत्स्वकाले सति कारणे समर्थे कार्यं जायते, नासतीति तदन्वयव्यतिरेकानुविधायीष्यते तथा स्वकालेऽनायन्ते सति समर्थे नित्ये स्वसमये कार्यमुपजायमानमन्यदानुपजायमानं तदन्वयव्यतिरेकानुविधायि कथं नानुमन्यते सर्वदा समर्थे नित्ये कारणे सति स्वकाले एव कार्यं भवत्कथं तदन्वयव्यतिरेकानुविधायीति चेत्, तर्हि कारणक्षणात्पूर्वं पश्चाच्चानाद्यनन्ते तदभावे विशेषशून्येऽपि कचिदेव तदभावसमये भवत्कार्यं कथं तदन्वयव्यतिरेकानुविधायि ? इति न कश्चिद्विशेषः । तदेवमन्वयव्यतिरेकानुविधानाभावाविशेषेऽपि क्षणिकैकान्ते एव कार्यजन्मेति वचनमभिनिवेशमात्रनिबन्धनम् । तथा चाकस्मिकत्वं स्यात्, समर्थं कारणमनपेक्ष्य स्वयमभिमतसमये भवतः कार्यस्य निर्हेतुकत्वप्रसक्तेर्नित्यकार्यवत् । उभयत्राविशेषेण कथञ्चिदनुपयोगेऽपि कचिद्व्यपदेशकल्पनायामन्यत्रापि किं न भवेत् ? क्षणिकस्य कारणस्य सर्वथा कार्यं प्रत्युपयोगाभावेऽपि तस्येदं कार्यमिति व्यपदिश्यते, न पुनर्नित्यस्य तादृश इति न किञ्चिन्निबन्धनमन्यत्र महामोहात् । नित्यस्य प्रतिक्षणमनेककार्यकारित्वे क्रमशोनेकस्वभावत्वसिद्धेः कथमेकत्वं स्यादिति चेत्, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदस्तृतीयः ॥ ॥२५८॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy