SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir LSOURCESS न हि प्रमाणं नित्यं नाम, तत्कृताभिव्यक्तेः प्रमितिरूपाया महदहकारादौ व्यक्तात्मनि नित्यत्वप्रसङ्गात् । नापि कारकं नित्यं, तद्विहिताभिव्यक्तरुत्पत्तिरूपायाः सातत्यप्रसक्तेः । तथा च न व्यक्तं प्रमाणकारकैरभिव्यक्तमिन्द्रियैरर्थवदिति शक्यं वक्तुम् , पूर्वमनभिव्यक्तस्य व्यञ्जकव्यापारादभिव्यक्तिप्रतीतेः । अथ मतम् , प्रमाणकारकाणि व्यवस्थितमेव भावं व्यञ्जयन्ति चक्षुरादिवत् स्वार्थम् । ततो न किचिद्विप्रतिषिद्धमिति, तदप्यसम्यक् , सर्वथा नित्यत्वेन भावस्याव्यवस्थितत्वात् कथंचिदनित्यस्यैव प्रमाणकारकव्यापारविषयत्वविनिश्चयात् । चक्षुरादयो हि स्वार्थ रूपादिकमनभिव्यक्तस्वभावपरिहारेणाभिव्यक्तस्वभावोपपादनेन च व्यञ्जयन्तः स्वयमव्यञ्जकरूपत्यागेन व्यञ्जकत्वस्वीकरणेन च व्यञ्जकव्यपदेशभाजो दृष्टाः । न चैवं प्रमाण कारकं च परैरिष्टम् , तयोर्नित्यत्वाभ्युपगमात् । तत्कृतस्य च विषयविशेषविज्ञानादेः शाश्वतत्वान्न किञ्चिब्यक्त्यर्थ पश्यामः, कथञ्चिदपूर्वोत्पत्तौ तदेकान्तविरोधात् । न ह्यनेकान्तवादिनस्तव साधोः शासनादहिर्विषयविशेषविज्ञानाभिलाषप्रवृत्त्यादेरुत्पत्तिः कथञ्चिदपूर्वा युज्यते, यतोऽस्यामभ्युपगम्यमानायां नित्यत्वैकान्तविरोधो न भवेत् , तदभावे विकार्यानुपपत्तेः । न हि कथञ्चिदपूर्वोत्पत्त्यभावे किंचिद्वयङ्गय कार्य वा विकार्यमुपपद्यते ॥ ३८ ॥ न वै किंचिद्विरुद्ध कार्यकारणभावाभ्युपगमादित्यनालोचितसिद्धान्तम् , कार्यस्य सदसत्त्वविकल्पद्वयानतिक्रमात् । तत्र प्रमाणेत्यादिकारिकायां ते च नित्ये इत्यन्तेन, यदि व्यक्तमिन्द्रियैरर्थवत् प्रमाणकारकाभ्यां व्यक्तं स्वीक्रियते ते च प्रमाणकारके नित्ये स्वीक्रियेते तहत्यिध्याहारात्तर्हि तदा, ते तव, साधोः शासनाद्वहिरन्यत्र, विकार्य किं न किश्चित् , प्रमाणकारककृताभिव्यक्तेरपि सदातनत्वादित्यक्षरार्थः । अत्र प्रमाणकारकैरित्यपपाठः बहुवचनान्तकान्तस्य ते इति द्विवचनान्ततच्छब्देन परामर्शायोगात , किन्तु प्रमाणकारकव्यक्तमिति समस्तपाठ एव युक्तः, वृत्ती बहुवचनान्तपाठस्य For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy