SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्त्री विवरणम्।। ॥२५४॥ सत्त्वे तत्प्रत्यक्षमिव तत्सम्बन्धतत्सम्बन्धपरम्पराऽपि प्रत्यक्षा स्यात् ) प्रत्यक्षादाविति भाष्यस्थादिशब्दगृहीतानुमाना- परिच्छेदो दावपि मूक्ष्मस्थूलाकाराः स्थूलसूक्ष्मस्वभावव्यतिरेकेण न प्रतिभासन्त इति समर्थयितुमनाः प्राह-सर्व वस्त्वित्यादिना * द्वितीयः॥ प्रत्यक्षबाधितेति अवयवसहितस्यैवावयविनः प्रत्यक्षे भानादित्यर्थः, गुणीभूता इति, यावत्स्वप्रदेशगुणपर्यायविशिष्टतादात्म्यसंसर्गेणैवेदंतादेर्घटे भानाभ्युपगमादित्यर्थः । तदनर्थित्वादिति रूपाद्युद्देश्यकजिज्ञासाभावादित्यर्थः, तत्सद्भावे तु जायत एवैते रूपादयो घट इति प्रत्यक्षमिति भावः। यद्यपि विवक्षा शाब्दबोध एव प्रयोजिका, न प्रत्यक्षे, नापि जिज्ञासा, घटदिदृक्षयोन्मीलितनयनस्य पुरःस्थितपटप्रत्यक्षानुत्पत्तिप्रसङ्गात् , तथापि प्रधानगुणभावेन तथातथाप्रत्यक्षे तत्तदर्थित्वादिनियन्त्रितक्षयोपशमस्यान्वयव्यतिरेकाभ्यां विशिष्य हेतुत्वान्नानुपपत्तिरिति सर्वमनवद्यम् । शिष्टं सुगमम् ॥३६॥ इत्येकत्वपृथक्त्वचिन्तननयो यौ सप्तभङ्ग्यावहौ, तावुन्मग्नजलानिमग्नजलयोः सादृश्यमन्विच्छतः॥ उल्लङ्घ्य द्वयमस्तमोहविषमम्लेच्छो लिखित्वाभिधां, स्याद्वादर्षभकूट एव हि निजां स्याचक्रवर्ती बुधः ॥१॥ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुविरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्यमुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपंडितश्रीलाभविजयशिष्याग्रेसरपंडितश्रीजितविजयगणिसती ालंकारपंडितश्रीनयविजयगणिचरणकमलचंचरीकेण पंडितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्रीतात्पर्यविवरणे द्वितीयः परिच्छेदः ।। । ॥ अष्टसहस्रीतात्पर्यविवरणे द्वितीयः परिच्छेदः समाप्तः॥ ॥२५४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy