________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
असहस्री विवरणम्॥
परिच्छेदो द्वितीयः॥
॥२५३॥
क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेस्तदयोगादित्यनुमानेन स्वलक्षणमध्यवसीयते इति चेत्, न, अत्र हेतोविरुद्धत्वात् , सत्त्वस्य कथंचिन्नित्या- नित्यात्मकसूक्ष्मस्थूलात्मकत्वेन व्याप्तत्वात्, सर्वथा नित्यायेकान्तरूपे क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेः समर्थनात् । एतेन स्थूलमेवावयवि द्रव्यं सूक्ष्मावयवरहितं प्रतिभासते इति व्युदस्तम् , तदनुमानस्यापि विरुद्धत्वाविशेषात् प्रत्यक्षबाधितविषयत्वाश हेतोरतीतकालत्वाव्यवस्थितेः । अत एव नोपमानादावपि तत्प्रतिभासनमिति नासिद्ध सूक्ष्मायेकान्तस्य प्रत्यक्षबुद्धावप्रतिभासनम, यतस्तप्रतिषेधे साध्ये स्वभावानुपलब्धिर्न सिध्येत् । तत्प्रतिषेधे च सिद्धः सूक्ष्माद्यनेकान्तः । तत्र स्वभावान्तरस्य प्राधान्यविवक्षायामाकारान्तरस्य गुणभावः स्यात् , घटोयं परमाणवो रूपादयो वेति । घटार्थिनो हि घटविवक्षायां घटः प्रधानं परमाणवोऽनुमेयाः, प्रत्यक्षाश्च रूपादयो गुणीभूताः, तदनर्थित्वादविवक्षाप्रसिद्धेः । तदर्थिनां तु तद्विवक्षायां त एवं प्रधानं न पुनर्घटोवयवी, तद्विवक्षायाः संभवाभावात्तदर्थित्वानुपपत्तेः । न च तदुभयसत्त्वाविशेषादविशेषेणार्थित्वमर्थित्वं वा प्रसज्यते, तस्य तत्सत्तामात्रानिबन्धत्वात् , मोहविशेषोदयहेतुकत्वात् तदुदयस्यापि मिथ्यादर्शनादिकालादिनिमित्तकत्वात् ॥ तदेवं स्यादद्वैतं, स्यात् पृथक्त्वमिति मूलभङ्गद्वयं विधिप्रतिषेधकल्पनयैकवस्तुन्यविरोधेन प्रभवशादुपदर्शितम्। शेषभङ्गानां तु प्रकिया यथोदितनयविशेषवचनभाक् 'एकानेकविकल्पादावुत्तरत्रापि योजयेत्' इत्याद्यतिदेशकारिकानिर्देशसामर्थ्यात्प्रपञ्चतो निश्चेतव्या ॥ ३६॥
अद्वैताद्याग्रहोग्रग्रहगहनविपन्निग्रहेऽलङ्घन्यवीर्याः, स्यात्कारामोघमन्त्रप्रणयनविधयः शुद्धसद्ध्यानधीराः॥ धन्यानामादधाना धृतिमधिवसतां मण्डलं जैनमय, वाचः सामन्तभद्रथो विदधतु विविधां सिद्धिमुद्भूतमुद्राः॥१॥
॥ इत्याप्तमीमांसालङ्कतौ द्वितीयः परिच्छेदः ॥२॥
॥२५॥
For Private And Personal Use Only