________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsur Gyanmandir
अष्टसहस्री विवरणम्॥ ॥२५॥
परिच्छेदो द्वितीयः॥
कारकोऽनन्यथासिद्धनियतपूर्ववर्ती, जातिभेदा अतद्व्यावृत्तिरूपास्तुच्छाः, तद्विशेषावगाहिनस्तद्विशेषाकारनानविषयाः, यथाश्रुतेऽवगाहित्वस्य ज्ञानधर्मस्य जातिभेदविशेषणत्वानुपपत्तेरिति द्रष्टव्यम् । भिन्नं रूपं गुणान्तरं पदार्थान्तरं वा, इतरस्याविवक्षायां गुणभावादिति गुणभावस्तत्प्रकारकबोधोद्देशेन वचनाप्रवृत्तावप्यभेदसंसर्गप्रवेशमर्यादया भानं, तत्र | मूलं चानन्तधर्मात्मके वस्तुन्येकोऽपि धर्मस्तदितरसकलधर्माभिन्नत्वविशिष्टसंसर्गेण भातीति व्युत्पत्तिः । नन्वेकत्वमभेदः पृथक्त्वं च मेदः साधनमेकं पक्षधर्मत्वादिना न भिद्यते किन्तु भिन्नप्रकारकप्रतीतिविषयो भवतीति दृष्टान्तावष्टम्भेन जीवादिवस्तुन्येकत्वपृथक्त्वयोरन्योन्यानुगमसाधनं युक्तिरिक्तमिति चेत् , न, धूमो वह्नौ धूमत्वेनैको हेतुः पक्षधर्मत्वादिरूपैः पृथग्रूपः, दण्डो घटे दण्डत्वेन हेतुर्द्रव्यत्वेन न हेतुरिति प्रतीत्या हेतावेकत्वपृथक्त्वयोमेंदामेदयोश्चान्योन्यानुगमसिद्धान्तदृष्टान्तेन जीवादिवस्तुनि तत्साधनस्य युक्तिपथानतिवर्तित्वात् । न च द्रव्यत्वेन न हेतुरित्यत्र द्रव्यत्वानवच्छिन्नहेतुतावानर्थः, मूले वृक्षः संयोगी न शाखायामित्यत्रापि शाखानवच्छिन्नसंयोगवद्विषयकत्वापत्तेः, दण्डोऽदण्डश्च द्रव्यत्वेन न हेतुरित्यत्रागतेश्च । युक्तिसिद्धे च भेदस्याव्याप्यवृत्तित्वे किमेकत्रापेक्षया मेदामेदोभयावगाहिप्रतीतेरन्यविषयत्वकदर्थनेन, न च द्रव्यत्वावच्छिन्नतादात्म्येन हेतुमति द्रव्यत्वेन हेतु मेदोऽप्यसम्भवीति शङ्कनीयम् । तादात्म्येन तत्तद्धेतुतत्तद्भेदयोस्तत्तद्धेतुतावच्छेदकतदनवच्छेदकमेदेन सत्त्वस्वीकारात् प्रतियोग्यनवच्छेदकस्याभावावच्छेदकत्वेऽतिप्रसङ्गस्तु कथश्चित् पक्षेणैव प्रतीत्यबाधया परिहरणीय इति दिग।॥ ३४॥
विवक्षाऽविवक्षबोरसद्विषयत्वान्न तद्वशात्तत्वव्यवस्था युक्तति मन्यमानं प्रत्याहुः सूरयः
॥२५॥
For Private And Personal Use Only