SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदो द्वितीयः॥ ॥२४८॥ न्तायां स्वरूपमात्रग्राहिणेत्यर्थः । तदुक्तं 'न्यायविनिश्चयालङ्कारे' “स्वग्राबैकस्वभावोऽयं विकल्पस्तन्मते स्थितः। व्याहारादेः कथं तेन बहिरर्थस्य वीक्षणम् ॥ १॥” इति । 'स्वत एवेति' स्वत एव स्वग्राह्यार्थस्य विकल्पज्ञानेन तत्तत्प्रकारकत्वेन निर्णये बोधस्वरूपस्वलक्षणांशेऽपि विकल्पः सप्रकारकः स्यात् , न च त्रिपुटीप्रत्यक्षवादे इष्टापत्तिः, बोधांशे निर्विकल्पकत्वेऽपि स्वात्मोभयव्यवहारजनकत्वेनैव स्वात्मविषयत्वव्यवस्थानात् , अन्यथाऽनुव्यवसायाकारपरम्पराभाजनत्वापत्तेरित्यर्थः। विभ्रमैकान्तवादिवचनमिति विभ्रमैकान्तवादी माध्यमिको ग्राह्यांशे ग्राहकांशे च तस्य विभ्रमवादित्वात् , वेदान्ती वा, विद्याया अप्यविद्याकार्यत्वेन तेन भ्रान्तत्वोपगमादिति द्रष्टव्यम् ।। ३१ ।। एवं तर्हि मा भून् पृथक्त्वैकान्तोऽद्वैतैकान्तवदशक्यव्यवस्थापनत्वात् । तदुभयेकात्म्यं तु श्रेय इति मन्यमानं वादिनं सर्वथा वाऽवाच्यं तत्त्वमातिष्ठमानं प्रत्याहु:विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्तिन वाच्यमिति युज्यते ॥३२॥ ____ अस्तित्वनास्तित्ववत् पृथक्त्वेतरपरस्परप्रत्यनीकस्वभावद्वयसंभवोपि मा भूद्विप्रतिषेधात् । न खलु सर्वात्मना विरुद्धधर्माध्यासोऽस्ति तदन्योन्यविधिप्रतिषेधलक्षणत्वाद्वन्ध्यासुतवत् । यथैव हि वन्ध्याया विधिरेव तत्सुतप्रतिषेधः स एव वा वन्ध्याया विधिरिति वन्ध्यासुतयोरन्योन्यविधिप्रतिषेधलक्षणत्वं तथा पृथक्त्वस्वभावविधिरेव सर्वथैकत्वप्रतिषेधः स एव च तद्विधिः । इति कथमिव स्याद्वादमनिच्छतां विरुद्धधर्माध्यासः संभवेद्यतस्तदुभयैकात्म्यं तत्त्वमेकान्तवादिनः स्वीकुर्युः ? सर्वथानभिलाप्यतत्त्वाधिगमेपि यदेतदनभिलाप्यं तत्वमिति तयाहन्यते, पूर्ववत् । इत्यलं प्रपञ्चेन ॥ ३२ ॥ २४८॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy