SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्वलक्षणसामान्ययोस्तद्विषययोर्भेदात् । तत्र दृश्यविकल्ययोरेकत्वाध्यवसायान्नीलविकल्पे वैशद्यप्रतिभास इति चेत्, न तत एव दूरेऽपि वैशयप्रतिभासप्रसङ्गात् । स्यान्मतम्, प्रत्यासन्नेऽर्थे विकल्पये दृश्यस्याध्यारोपाद्विकल्पवैशयं दूरे तु दृश्ये विकल्प्यस्याध्यारोपाद्दशनावैशद्यं प्रतीयते कुतश्चिद्विभ्रमात् इति, तदप्यसारम्, चन्द्रार्कादावतिदूरे दृश्ये विकल्प्याध्यारोपादद्वैशद्य प्रतीतिप्रसङ्गात् प्रत्यासन्नतरे च चक्षुषः करतलरेखादौ विकल्प्ये दृश्याध्यारोपाद्वैशद्यप्रसङ्गात् । यदि पुनरदृष्टविशेषवशाद्दृश्यविकल्प्ययोरेकत्वाध्यारोपाविशेषेपि क्वचिद्वैशद्यमवैशद्यं च यथाप्रतीत्यभिधीयते तदा तत एवेन्द्रियजत्वाविशेषेपि कचिद्वैशद्यप्रतिभासोन्यत्रान्यथेति नैकान्तेन दर्शनस्य विशदात्मकत्वमर्थसन्निधानापेक्षत्वं वा यतः परमार्थैकतानत्वान्नियमः स्यात् न पुनः शब्दबुद्धिवदुपादाननियमादिति । न शब्दबुद्धेर वस्तुविषयत्वेप्युपादाननियमाद्विशेषः, परार्थानुमानस्य वक्त्रऽभिप्रेतसमये त्रिरूपहेतुसूचित्वादविसंवादादितरवचनाद्विशेष इति चेत न, तथापि क्षणभङ्गादिसाधनवचनमन्यद्वा न किंचित् सत्यं स्याद्वक्त्रऽभिप्रेतमात्रसूचित्वात् प्रधानेश्वरादिसाधनवाक्यवत् । न हि वक्त्रभिप्रेतमात्रसूचित्वाविशेषेपि क्षणभङ्गादिसाधनं प्रतिपक्षदूषणं वा सत्यं न पुनः प्रधानेश्वरादिसाधनमिति शक्यव्यवस्थम्, यतस्तदेव संवादि स्यात्, सर्वथा विशेषाभावात् । सदर्थाप्रतिपादनाद्वा न क्षणभङ्गादिसाधनवचनं विपक्षदूषणवचनं वा सत्यम्, प्रसिद्धालीकवचनवत् । ननु च व्याख्यातारः खल्वेवं विवेचयन्ति न व्यवहर्तारः । ते हि दृश्यविकल्प्यावर्थावेकीकृत्य यथेष्टं व्यवहरन्ति । क्षणभङ्गादिसाधनवचनमन्यद्वा सत्यम्, न प्रधानेश्वरादिसाधनवाक्यम् । परमार्थतस्तु न किंचिद्वचनमवितथम् । इत्यभ्युपगमेपि दृश्यविकल्प्यार्थाकारयोः कथंचिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचेतोधर्मादिक्षणवत् कथं संशीतिमतिवर्तेत ? निर्विकल्पक दर्शनात्तदवधारणासंभवात् विकल्पानां चावधास्तुविषयत्वात् । सोयमविकल्पेतरराइयोरर्थेतरविषयत्वमन्यद्वा स्वांशमात्राव I ४२ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy