________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
R
१%A5
बष्टसहस्री विवरणम्॥
परिच्छेदः द्वितीयः॥
%
॥२४५॥
%
%
विषयानुभवनियमात् , पश्चानां विज्ञानवेदनासंज्ञासंस्काररूपलक्षणानाम् , तत्रेति पूर्वोत्तरज्ञानक्षणेप्येकदेशवर्तिषु च परमाणुवित्यर्थः । तादृशामेकसन्तानभाजां ज्ञानक्षणानां परमाणूनां च, तादृश एकसन्तानत्वनिबन्धनस्य ।। २९ ॥ ___पृथक्त्वैकान्तपक्षे दूषणान्तरमुपदर्शयन्तः प्राहुःसदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद द्विधाप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम्।३०। ___ सदात्मना सत्सामान्यात्मना भिन्नमेव ज्ञानं ज्ञेयादिति चेद् द्विधाप्यसदेव प्राप्तं ज्ञानस्यासत्त्वे ज्ञेयस्यासत्त्वप्रसङ्गात् । ततो बहिरन्तश्च न किश्चित्कथंचिदपि ज्ञेयं नाम त्वद्विषां प्रतीयेत । ननु सद्विशेषाद् भेदेपि ज्ञानस्य ज्ञेयान्नासवप्रसक्तिः। सदन्तरत्वं तु न स्यात् पटान्तराद्भेदेपि पटस्य पटान्तरत्वाभाववत् । सत्सामान्यं पुनः सर्वेषु सद्विशेषेष्वसत्त्वव्यावृत्तिमात्रम् । न च तदात्मना कस्यचित्कुतश्चिदेदोऽभेदो वा विचार्यते तस्य वस्तुनिष्ठत्वात् सन्मात्रस्य चावस्तुत्वात् । तदात्मना व्यावृत्तस्य ज्ञानस्य ज्ञेयात्परमार्थसत्त्वाविरोधान्न कश्चिदुपालम्भ इति चेत् , न, सत्सामान्यस्याभावे सांवृतत्वे वा सद्विशेषाणामभावप्रसङ्गात् सांवृतत्वापत्तेश्च तदसत्त्वव्यावृत्तेरपि वस्तुस्वभावत्वादन्यथा खरविषाणादावपि तदनुषङ्गात् । तथा हि । ज्ञानज्ञेययोरसद्व्यावृत्तिर्वास्तवी सद्विशेषत्वात् । यस्य तु न सा वास्तवी स न सद्विशेषो यथा वन्ध्यासुतः। सद्विशेषौ च ज्ञानज्ञेये । इति केवलव्यतिरेकी हेतुः । तथा यत्रासद्यावृत्तिर्वास्तवी तत्र सत्सामान्य वस्तु, सत्सामान्यरहितेषु वन्ध्यासुतादिष्वसद्व्यावृत्तेरवास्तवत्वात् , इति वास्तवसत्सामान्यात्मना ज्ञानस्य ज्ञेया दे सद्विशेषात्मनापि | भेदः स्यात् । तथा च ज्ञानमसत् प्राप्तम् । तदनिच्छतां विषयिणो विषयात्कथञ्चित्स्वभावभेदेपि सदाद्यात्मना तादात्म्यं बोधाकारस्येव विषयाकारादू , विशेषाभावात् । अन्यथा ज्ञानमवस्त्वेव खपुष्पवत् । तदभावे बहिरन्तर्वा ज्ञेयमेव न स्यात् , तदपेक्षत्वात् तस्य ततः
OCCASE5%
%
%
%
॥२४५॥
A5
For Private And Personal Use Only