SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra 54 %* ससससस:45 * विषाणाद्याकारतया प्रागसत्त्वस्य सङ्गव्यादिरूपतया सत्त्वस्य चाविशेषात् । तदुत्पत्तिकारणस्य दृष्टस्यादृष्टस्य चाभावात् तत्र न तस्योत्पत्तिरिति वचने परेषामपि प्रागसत्त्वैकान्ताविशेषेपि कार्यस्य पूर्व सति कारणे जन्म नासतीति न किंचिदतिप्रसज्यते, तदन्वयव्यतिरेकानुविधाननिबन्धनत्वात् तत्कारणत्वस्य । न च निरन्वयक्षणिकत्वेऽपि कार्यस्य कारणान्वयव्यतिरेकानुविधानमसंभाव्यम् , स्वकाले सति कारणे कार्यस्योत्पत्तेरसत्यनुत्पत्तः प्रतीयमानत्वात् स्वदेशापेक्षान्वयव्यतिरेकवत्। तदुक्तम् "अन्वयव्यतिरेकाद्यो यस्य दृष्टोनुवर्तकः। स्वभावस्तस्य तद्धेतुरतो भिन्नान्न संभवः ॥११॥” इति । ततोऽव्यभिचारेण कार्यकारणभूता एवापरामृष्टभेदाः क्षणाः संतानो युक्तः । इति कश्चित् ।। सोपि न प्रतीत्यनुसारी, तथा बुद्धतरचित्तानामप्येकसंतानत्वप्रसङ्गात् तेषामव्यभिचारेण कार्यकारणभूतत्वाविशेषात् । निरास्रवचित्तोत्पादात्पूर्व बुद्धचित्तस्यापि संतानान्तरचित्तकारणत्वाभावान्न तेषामव्यभिचारी कार्यकारणभाव इति चेत् , न, यतः प्रभृति तेषां कार्यकारणभावस्तत्प्रभृतितस्तस्याव्याभिचारादन्यथा बुद्धचित्तस्यासर्वज्ञत्वप्रसङ्गात् । नाऽननुकृतान्वयव्यतिरेकं कारणम् , नाकारणं विषय इति वचनात् । स्यान्मतम् , येषामग्राह्यग्राहकत्वे सत्यऽव्यमिचारी कार्यकारणभावस्तेषामेकसंतानत्वोपगमान्न दोष इति चेत्, तदप्ययुक्तम् , समनन्तरप्रत्ययेनापि सह बुद्धचित्तस्यैकसंतानतापायप्रसक्तः, तस्य बुद्धचित्तेनाग्राह्यत्वे तस्यासर्ववेदित्वापत्तेः । समनन्तरप्रत्ययस्य समनन्तरत्वादेव बुद्धचित्तेन सहैकसंतानत्वमिति चेत् , कुतस्तस्य समनन्तरत्वम् ?, तस्याव्यभिचारिकारणत्वादिति चेत्, न, सर्वार्थानां तत्समनन्तरत्वप्रसङ्गात् । एकसंतानत्वे सति कारणत्वादिति चेत्, सोयमन्योन्यसंश्रयः । सिद्धे समनन्तरप्रत्ययत्वे तस्यैकसंतानत्वेन कारणत्वसिद्धिस्तत्सिद्धौ च समनन्तरप्रत्ययत्वसिद्धिरिति । स्याद्वादिना कस्तःकः संतान इति चेत , पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोरतिशयात्मनोरन्वयः संतानः । कचित्क्षणान्तरे नीललोहितादिनिर्भासचित्रैकसंवेदनवत्कथंचिदेकत्वमेव भवितुमर्हति । न च साध्य * For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy