________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
लगुणात्मकस्यैकस्य भावस्य दृष्टावपि तत्त्वेनादर्शनान्न विरोध इत्याशझ्याह-धर्मिमात्रेऽपीत्यादि' (२२६-१-१३) न हि शब्ददर्शने धम्यंशेऽभ्रान्तत्वं क्षणिकत्वाद्यशे च भ्रान्तत्वमिति तत्साधनाय प्रवृत्तिरिति वक्तुं युक्तम् , निरंशे वस्तुन्यांशिकभ्रमत्वप्रमात्वयोर्दुवचत्वादिति भावः। स्वभावातिशयप्रसङ्गा (१४)दिति ज्ञानाकारभेदस्यार्थाकारभेदनियतत्वादिति भावः। यद्यपि पदार्थस्य स्वतः स्वभावातिशयोनास्ति तथापि विजातीयभेदात् स्वभावातिशयो भविष्यतीत्याशङ्कायामाह भाष्यकृत्-सदुत्पत्तीत्यादि (२२६-२-१)। तत एवेति (४) असवादिव्यावृत्त्यपेक्षया लाघवात् सच्चादेरेवाविद्याविशेषजन्यत्वकल्पनौचित्यादिति भावः । अत एव त्रिविधं सचमोपनिषदानामिष्टमिति मन्तव्यम् । यदि च तत्त्वज्ञानदशायामपि सच्चाद्यनुभवान्न तस्याऽऽविद्यकत्वम् , तदाऽस्तु प्रमाणसिद्ध एवानन्तगुणात्मकस्वभावभेदोधर्मिणः, तत्वज्ञानिभिस्तथानुभवादिति बोध्यम् । सदन्तरेति (५) सदन्तरं यद् घटवद्भूतलं ततो विविक्तस्य, केवलस्य भूतलस्य, असत्त्वव्यपदेशात् (५) घटाभावत्वेन व्यवहारादित्यर्थः, तथा च शब्दाद्यात्मनानुत्पत्तिमद् घटादि प्रसिद्धं तद्व्यावृत्त्योत्पत्तिमचं शब्दे सुवचमिति भावः । एवमग्रेऽप्यतव्यावृत्तिप्रसिद्धिर्विशेषादेशेन वाच्या । निःस्वभावेति (७) निषेधस्य विध्यवच्छिन्नत्वाद्विधिस्वभावमेदाभावे निषेधस्वभावभेदस्य दूरापास्तत्वादिति भावः। 'सतां हीति' (७) गुणप्रधानभावो हि वैवक्षिकः, विवक्षा च सत्येव वस्तुनि नासतीति विधेयनिषेधयोरन्यतरप्रधानगुणभाव उभयस्वभावभेदमेवाक्षिपतीति भाध्यप्रतीकार्थः। तद्व्यवहारस्यैवेति' (११) व्यवहारान्योन्याश्रयश्चानादित्वाददोषः, यत्प्रतियोगिकत्वं यत्र नोपस्थितं तत्र विश्रामेण ज्ञायप्रतिबन्धाद्वेति मन्तव्यम् । ततो (२२७-१-२) नीलादिविकल्पोत्पत्तेः, तद्वत(२)नीलादिरूपव्यवस्थावत् , सुग्खादिव्यवस्थितिरपि कुतः सम्भाव्येत?(२)।
For Private And Personal Use Only