________________
Siri Mahavir Jain Aradhana Kendra
www.icbatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
॥२२६ ॥
स्वभावत्वे सर्वथातिप्रसङ्गात् । सदुत्पत्तिकृतकत्वादेः प्रत्यनीकस्वभावविशेषाभावाद् यावन्ति पररूपाणि तावन्त्यस्ततस्ततो व्यावृत्तयः परिच्छेद प्रत्येकमित्येषापि कल्पना मा भूत् । न हि किंचिदसदनुत्पत्तिमदऽकृतकादि वा वस्तुभूतमस्ति सौगतप्रसिद्ध पररूपं यतो व्यावृत्तं प्रथमः॥ परमार्थतोऽस्वभावभेदमपि शब्दादिस्वलक्षणं सदुत्पत्तिकृतकत्वादिस्वभावभेदवत्परिकल्प्यते। पराभ्युपगमात्सिद्धमस्तीति चेत्, न, तस्याप्रमाणसिद्धत्वात् । कल्पनारोपितं तदस्तीति चेत् , कुतस्तत्कल्पनाप्रसूतिः ? अनाद्यविद्योदयादिति चेत् , तत एव सत्त्वादिधर्मकल्पनास्तु, किमसत्त्वादिव्यावृत्त्या ? सदेव किंचिद्गुणीभूतविधिस्वभावं निषेधप्राधान्यादसदुच्यते, सदन्तरविविक्तस्य सत एवासस्वव्यपदेशात् । तथोत्पत्तिमदन्तरविविक्तमुत्पत्तिमदेव किंचिदनुत्पत्तिमत् , कृतकान्तरविविक्तं कृतकमेवाकृतकम् , वस्त्वन्तरविविक्तं वस्त्वेवावस्तु व्यवहृतिपथमुन्नीयते इति चेत्, न, परमार्थतः सत्त्वादिवस्तुस्वभावभेदप्रसिद्धेः, निस्वभावभेदवस्तुरूपाभ्युपगमविरोधात् | सतां हि स्वभावानां गुणप्रधानभावः स्यात् पादोत्तमानवत, न पुनरसतां शशाश्वविषाणादीनामविशेषात् । ततः परिकल्पितव्यावृत्त्या धर्मान्तरव्यवस्थापन परिफल्गुप्रायम् , वस्तुस्वभावाभावप्रसङ्गात् । शक्यं हि वक्तुम् , न किञ्चिद्वस्तु नामास्ति, तस्यावस्तुव्यावृत्त्या व्यवहरणात परिकल्पितव. स्तुव्यावृत्त्या चावस्तुव्यवहारसिद्धेः । परस्पराश्रयणान्नैवमिति चेत् , तर्हि कल्पितासत्त्वादिव्यावृत्त्या सत्त्वादयस्तद्व्यावृत्त्या चासत्त्वादिधर्मपरिकल्पनमित्यपि मा भूत , परस्पराश्रयणाविशेषात् । स्ववासनासामर्थ्यात्सत्त्वेतरादिकल्पनयोरुत्पत्तेस्तद्व्यवहारस्यैव परस्परापेक्षत्वान्न परस्पराश्रयणम् , सकलधर्मधर्मिविकल्पशब्दानां स्वलक्षणाविषयत्वात् परिकल्पिततदन्यव्यावृत्तिविषयत्वसिद्धेरिति चेत्, न, तथेन्द्रियबुद्धयोपि स्वलक्षणविषया मा भूवन । केवलं व्यावृत्ति पश्येयुः, अदृष्टे विकल्पायोगादतिप्रसङ्गाच । यथैव हि नीले पीतादीनामदृष्टत्वान्न तद्विकल्पोत्पत्तिर्नीलस्य दृष्टत्वान्नीलविकल्पस्यैवोत्पत्तिस्तथैवासत्त्वादिव्यावृत्तिमपश्यतस्तद्विकल्पोत्पत्तिर्मा भूत् , स्वलक्षणदर्शनात्स्वलक्षणवि
IP२२६॥
For Private And Personal Use Only