________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥ २२२
यते, तथा सकृदप्यनुपलम्भाब् । तदनेन "न च कश्चिद्विरोधोस्ति मुनीन्द्र तव शासने," अन्यशासनेष्वेव विरोधसाधनादिति व्याख्यातं प्रतिपत्तव्यम् ॥२०॥ ___असाधने साधने चापेक्ष्यमाण इत्यर्थ इति (२२२-१-९) विधेयप्रतिषेध्यात्मकत्वसाधनानपेक्षायां तृतीयादिभङ्गस्तोमस्य तदपेक्षायां च तुर्यादिभङ्गस्तोमस्य शेषत्वं विवक्षणीयमित्यर्थः। पूर्वोक्तमुदाहरणमिति (१०) साधर्म्य यथा वैधर्येण वैधयं च साधर्म्यणाविनाभावीत्यर्थः, अनुभयावक्तव्यत्वेनेति (१३) उभयावक्तव्यत्वरूपसप्तमभङ्गार्थपर्युदासशालिनेत्यर्थः । हेतूदाहरणरूपनयानां (१३) हेतूदाहरणस्वरूपविमर्शानाम् ॥ २० ॥
साम्प्रतमव्यवस्थितानेकान्तात्मकं वस्तु सप्तभङ्गीविधिभागऽर्थक्रियाकारि, न पुनरन्यथेति स्वपरपक्षसाधनदूषणवचनमुपसंहरन्तः प्राहुः।एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथा कार्य बहिरन्तरुपाधिभिः ॥ २१॥
एवं प्रतिपादितनीत्या सप्तभङ्गोविधौ विधिनिषेधाभ्यामनवस्थितं जीवादि वस्तु सदेवासदेव वेत्य(व्य)वस्थितमर्थकृत् कार्यकारि प्रतिपत्तव्यम् । नेति चेदेवं वस्तु परैरभ्युपगम्यते तर्हि "यथाभ्युपगतं कार्य बहिरन्तरुपाधिभिः” सहकार्युपादानकारणैर्निर्वयं तथा न स्यात्, भावाद्येकान्ते सर्वथा कार्यप्रतिक्षेपात् । तत एवैवंव्याख्यानान्तरमुपलक्ष्यते । एवं प्रतिपक्षप्रतिक्षेपप्रकारेण विधिनिषेधाभ्यामनवस्थितं कथंचिद्विधिप्रतिषेधावस्थितमेवार्थकृत् नेति चेन्न, यथा कार्य (च) बहिरन्तः स्यादुपाधिभिरनन्तविशेषणैर्विशिष्टम् , सर्वथा निरंशवस्तुनि सकलविशेषणाव्यवस्थितेः । सत्त्वाद्यन्यतममात्रे एव भङ्गे समवस्थितं कुतो नार्थकृदिति चेत् , उच्यते, सप्तभङ्गीविधौ स्याद्वादे
का॥२२२ ॥
For Private And Personal Use Only