SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org साधनत्वेतरयोरनुपलम्भात् । यतश्चैवं प्रसिद्धमुदाहरणं, वादिप्रतिवादिनोर्बुद्धिसाम्यात् तस्माद्यदभिधेयं तद्विशेष्यम्, यथोत्पत्यादिरपेक्षया हेतुरहेतुश्च साध्येतरयोः तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि, तस्मात्साध्यसाधनधर्मविशेषणापेक्षया विशेष्यम् । इत्यनुमानादेकस्य विशेषणविशेष्यात्मकत्व विरोधनिरासः । यद्वा विशेष्यं तदभिलाप्यं यथोत्पत्त्यादि, विशेष्यं चास्तित्वादिवस्तुरूपं, तस्मादभिलाप्यम् इति वस्तुस्वरूपस्यानभिलाप्यत्वव्युदासः । यद्वा वस्तु तत्सर्वं विधेयप्रतिषेध्यात्मकं यथोत्पत्त्यादिरपेक्षया हेतुरहेतुश्च साध्येतयोः तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि । इत्यन्तदीपकं सर्वत्र योज्यं साधनं, वस्तु च जीवादि, तस्माद्विधेयप्रतिषेध्यात्मकम् । इति क्रमार्पित सदसत्त्वोभयात्मकत्वसाधनम् ।। १९ ।। साध्यसाधनधर्मयोः (२१७-२-९ ) प्रतिषेध्याविनाभावित्वविशेषणत्वयोः प्रकृतं (९) पूर्वकारिकाद्वयप्रोक्तम्, द्वितीये तत् (१०) विशेष्यं, तृतीये तत् (११) अस्तित्वं नास्तित्वं च । हेतुनिर्देशादिति, (१४) हेतुगर्भविशेषणनिर्देशादित्यर्थः । तत्र दृष्टान्तमाह-गुरव (१४) इत्यादि, तत्रापि हि गुरव इति हेतुगर्भविशेषणमहिम्नैव गुरुत्वाद्राजमाषा न भक्षणीया इति लभ्यते, तद्वत्प्रकृते विशेष्य इति हेतुगर्भो विशेषणनिर्देशो द्रष्टव्य इत्यर्थः । साध्यस्याग्न्यादेर्धर्मत्वं हेतोर्द्धमादेर्दुर्घटमिति प्रसिद्धार्थबाधाद्विशेषपरतया व्याचष्टे साध्यो धर्मीत्यादिना (२१८-१-१) धर्मी पक्षः पर्वतादिर्जीवादिव । गमकत्वागमकत्वयोगादिति, (२) यथाऽनित्वत्वसाध्यापेक्षयोत्पत्तिमत्त्वं गमकत्वाद्धेतुर्नित्यत्वसाध्यापेक्षया चागमकत्वादहेतुस्तथा जीवादेर्दृष्टान्तीभूतस्यापेक्षया सच्वेतरात्मकत्वं सिद्ध्यतीति समुदायार्थः । अथ किमगमकत्वमहेतोः, न पक्षे साध्यप्रत्ययाजनकत्वम्, अहेतुनापि हेतुत्वेन ज्ञानदशायां पक्षे साध्य भ्रमजननात्, अव्याप्यापक्षधर्मादिना व्याप्यपक्षधर्मत्वादिना ज्ञातेन वस्तुतः साध्यवत्पक्षावगाहितया क्वचित् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy