SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shet Kailassagarsuri Gyanmandie साध्यो धर्मी, साभ्यधर्माधारतया तस्य साध्यव्यपदेशात् , तथोपचारस्य दृष्टान्तधर्मिव्यवच्छेदार्थत्वात् । तस्य धर्मो विवर्त उत्पत्तिमत्त्वादिः । स यथा हेतुरनित्यत्वसाध्यापेक्षया, नित्यत्वसाध्यापेक्षयाऽहेतुश्च, गमकत्वागमकत्वयोगात् , तथा साध्याविनाभावेतरसद्भावादिति दृष्टान्तः । इत्यनुमानात्सत्वेतरात्मकः कथञ्चिज्जीवाद्यर्थः सिद्धयत्येव । हेतोर्विशेष्यत्वस्यासिद्धिरिति चेत् न, विशेष्योसौ, शब्दगोचरत्वात् तद्वदित्यनुमानात्तस्य विशेष्यत्वहेतोः साधनात् । शब्दगोचरत्वमसिद्धमर्थस्येति चेत्, न, शब्दगोचरो जीवादिः, विशेष्यत्वात्तद्वदित्यनुमानात्तस्य साधनात् । न चैवमितरेतराश्रयदोषः, सर्वथानभिलाप्यवस्तुवादिनः प्रति शब्दगोचरत्वे साध्ये विशेष्यत्वस्य हेतुत्ववचनात् , सर्वथा वाऽविशेष्यत्ववादिनः प्रति शब्दगोचरत्वस्य साधनत्वाभिधानात् , तदुभयासत्त्ववादिनस्तु प्रति वस्तुत्वस्योभयप्रसिद्धस्य हेतोः सामर्थ्यतः प्रयोगात् । विधेयप्रतिषेध्यात्मकत्वस्यापि तान्प्रति तत एव सिद्धिः । इति समासतः कारिकार्थः समवतिष्ठते । ननु च प्रत्यक्षबुद्धौ वस्तु स्वलक्षणमेव प्रतिभाति, न पुनरस्तित्वादिविशेषणम् , तस्य सकलविकल्पविकलत्वात् , दिकल्पबुद्धौ तद्व्यवहारप्रसिद्धेरिति चेत्, न, वस्तुनोस्तित्वाद्यनेकविकल्पात्मकस्य सांशस्यैव प्रतीतेः। किश्चित्केनचिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्संबन्धलोकस्थितिसंकलनेन गृह्येत नान्यथेत्यभिनिवेशेपि वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येकं दर्शनमवश्यंभावि, वस्तुन एव दर्शनं, न तद्विधिप्रतिषेधस्वभावयोर्विशेषणयोरिति वक्तुमशक्तेः, सदसत्स्वभावशून्यस्य स्वलक्षणस्य दर्शने तत्पृष्ठभाविविकल्पेनापि सदसत्त्वयोरध्यवसायायोगात् , पीतदर्शनपृष्ठभाविना विकल्पेन नीलत्वाध्यवसायायोगवत् । ततो विधिप्रतिषेधावात्मानौ विशेषस्य सविकल्पकत्वं साधयतः, सर्वथा तस्य भेदाभावे सदिदमसदिदमिति प्रत्येकं दर्शनाभावानुषङ्गात् , इदमुपलभे नेदमिति विकल्पोत्पत्तिविरोधात् । ततः सामान्यविशेषात्मकं वस्तु स्वलक्षणं, न पुनः सकलविकल्पातीतं विशेषमात्र सामान्यमानं वा परस्परनिरपेक्षं, तदुभयं वा स्वलक्षणं, For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy