________________
Shri M
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandir
543
परैर्नेष्यते एव । तदिष्टौ शब्दनित्यत्वसाधनाद्धेतोर्विपर्यासः स्यात्, विरुद्धत्वोपपत्तेः । सोयं कृतकत्वादेः साधनस्याविरुद्धत्वमुपयस्तत्र भेदाभेदविवक्षयोर्विपक्षेतरापेक्षयोर्वस्तुनिबन्धनत्वमुपगन्तुमर्हति । ततः समञ्जसमेतत् , यत्किञ्चिद्विशेषणं तत्सर्वमेकत्र प्रतिपक्षधर्माबिनाभावि, यथा वैधय॑मभेदविवक्षया हेतौ, तथा च नास्तित्वं विशेषणमित्यनुमानम्, साध्यसद्भावे एव साधनस्य सद्भावनिश्चयात् , अन्यथा व्यवहारसंकरप्रसङ्गात् , करमत्वस्य करभवद्दधन्यपि सद्भावानुषङ्गात्, दधित्वस्य च दनीव करभेपि प्रसक्तेः । दघि खादेति चोदितः करभमभिधावेत् , करभवद्वा दन्यपि नाभिधावेत् , अधित्वस्याकरभत्वस्य च कचिदप्यभावात्। इति प्रवृत्तिनिवृत्तिलक्ष गो व्यवहारः | संकीर्येत, सर्वस्य सर्वथा सद्भावात् । यदि पुनर्दधनि स्वरूपेण दधित्वं, न करभरूपेण, करभे च स्वरूपेण करमत्वं, न दधिरूपेण, यतः प्रवृत्त्यादिव्यवहारसंकरः प्रसज्येतेति मतम् , तदा सिद्धं दधित्वमदधित्वेन प्रतिषेध्येनाविनाभावि, करभत्वं चाकरमत्वाविनाभावि, तद्वत्तसर्व विशेषणं स्वप्रतिषेध्येनाविनाभावि इति सिद्धान्यथानुपपत्तिः, विपक्षे बाधकसद्भावात् । न हि स्वेच्छाप्रक्लप्तधर्मधर्मिव्यवस्थायां परमार्थावतारः स्यात् , यतः सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वमपेक्षते इति युक्तं भवेत् । तदसमीक्षिततत्त्वार्थैर्लोकप्रतीतिवशाद्भेदाभेदव्यवस्थितिस्तत्त्वप्रतिपत्तये समाश्रीयते इति बालाभिलापकल्पम् , भावस्वभावोपरोधात्सर्वत्र भेदाभेदव्यवस्थितेः, अन्यथा ततस्तत्त्वप्रतिपत्तेरयोगात्।।
नास्तित्वमित्यादिकारिका (२१६-२-८) प्राग्वव्याख्येया, अभेदविवक्षया (८) अन्वयविवक्षया, व्यतिरेकव्याप्तिर्यथै| कत्रान्वयव्याप्त्यविनाभाविनी तथा नास्तित्वमस्तित्वेनेत्यर्थः । विपक्षेतरापेक्षयो(२१७-१-२) वस्तुसझेदाभेदापेक्षयोरित्यर्थः। हेताविति (३) साधर्वेणाविनाभावीति शेषः । तथा च नास्तित्वं विशेषणमित्यस्तित्वेनाविनाभावीत्यर्थः, स्वरूपेणास्ति
%ASSOC
RACAM
For Private And Personal Use Only