________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ २११ ॥
www.kobatirth.org
श्रयणात्, अत एवावक्तव्यत्वसप्तभङ्ग्यामपि मौलभङ्गद्वयोत्थापिताकाङ्क्षाविषयस्यावक्तव्यत्वस्यान्यस्यैव तृतीयभङ्गे प्रवेशान्न न्यूनत्वमिति वदन्ति तेन व्यवस्थितः सप्तविधो वचनमार्गः ॥ अत्र नयविभागप्रदर्शनार्थमाह-' एवं सत्तविअप्पो वयण हो होइ अत्थपञ्जाए । वंजणपजाए पुण सविअप्पो णिविअप्पो य ॥ ६ ॥ एवमुक्तप्रकारेण सप्तविकल्पः सप्तभेदो वचनपथः अर्थ पर्यायेऽर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे भवति, तत्र प्रथमः सङ्घ हे सामान्यग्राहिणि, द्वितीयो व्यवहारे विशेषग्राहिणि, तृतीयपक्ष ऋजुसूत्रे सूक्ष्मवर्तमानक्षणग्राहिणि, एकदो भयार्पणाया वर्त्तमानक्षणनियतत्वात्, चतुर्थः सङ्ग्रहव्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुमूत्रयोः, सप्तमः सङ्ग्रहव्यवहारर्जुसूत्रेषु || व्यञ्जनपर्यात्रे विषयिलक्षणया शब्दनये सविकल्पः साम्प्रताख्यभेदे, पर्यायशब्दवाच्यताविकल्पसद्भावात्, निर्विकल्पः समभिरुदैवंभूतयोः, तयोः पर्यायक्रियाभेदभिन्नार्थत्वात्, तथा च स्यादस्ति स्यान्नास्तीत्यत्र घटपदेन यावद्घटवाचकपदवाच्यत्वावच्छिन्नो धर्म्युपादेयः, तस्य फलतः प्रथमशब्दभेदे सच्चम्, द्वितीयतृतीययोश्चासच्चमिति भेदद्वयं सिद्ध्यति ' सविअप्पणिवियप्पं ' इत्यादि सिद्धसविकल्पकत्वनिर्विकल्पकत्व भङ्गद्वयोपादाने प्रकृतसप्तभङ्गीमुपक्रम्य धर्मान्तरसप्तभङ्गीसाधनेऽर्थान्तररूपनिग्रहस्थानप्रसङ्गादित्यस्माकमनेकान्तव्यवस्थादौ मनीषोन्मेषः । न च यथोक्तव्याख्यानेऽपि धर्मितावच्छेदकभेदात् सप्तभङ्गी भेदप्रसङ्ग आवश्यकः, एकत्र धर्मिणीत्यस्यैकधर्मितावच्छेदकावच्छिन्न इत्येवार्थादिति शङ्कनीयम्, तद्धर्मितावच्छेदकसमनियतधर्मावच्छिन्नविशेष्यतास्थले सप्तभङ्गीभेदाभावात्, अन्यथा कम्बुग्रीवादिमान् स्यादस्तीत्यादावपि घटविशेष्यकसप्तभङ्गीभेदापत्तेरिति विभावनीयं सूरिभिः । साम्प्रतसमभिरूढैवंभूतान्यतमविषययोर्युगपत् जिज्ञासायां तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, प्रथमद्वितीय
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ २११ ॥