________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धानेऽपि घटमात्रस्य सदसच्चे, पटादीनां प्रागभावादीनां चाभावप्रसक्तिरिति विशेषणविशेष्यभावलोपात् सनसन्नित्येवं घटोऽवाच्य एव, अनेकान्तपक्षे तु कथञ्चिदवाच्यत्वान्न दोषः । न चानया रीत्या नीलोत्पलमित्यादावपि विशेषणविशेष्यभावखण्डनादवाच्यत्वप्रसङ्ग इति दूषणं देयम् । तत्रापि स्यात्पदमध्याहृत्यैव तत्कृतप्रतिनियमेन विशेषणविशेष्यभावव्यवस्थितेः, एकान्तपक्षे त्ववाच्यत्वस्वीकारादेव न च नीलोत्पलमित्यादेः सम्भवाभिप्रायेणैव प्रयोगाददोषः, तथापि नियमाभिप्रायेण स्यादवाच्यत्वाक्षतेः सम्भवनियमाभ्यां प्रथमद्वितीययोरेव भङ्गयोरारम्भे तूभाभ्यामवाच्यत्वाक्षतेरिति दिग् ॥१०॥ यद्वा व्यञ्जनपर्यायोऽर्थान्तरभूतस्तदतद्विषयत्वात्तस्य, घटार्थपर्यायस्त्वन्यव्यावृत्तेनिंजः, ताभ्यामाद्यद्वितीयौ, अभेदेन ताभ्यां निर्देशेऽवक्तव्यः, अन्यतरमनूद्यान्यतरविधाने व्यवस्थितरूपविपर्यासेन व्यवहारविलोपप्रसङ्गात् , अनेकान्तपक्षे तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवक्तव्यः ॥११॥ यद्वा सत्त्वमर्थान्तरभूतम् , अन्त्यविशेषो निजः, तदुभयं प्रवृत्तिनिवृत्त्यविषयत्वादनन्वयाच्चावाच्यम् , प्रत्येकावक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्यः, अनेकान्तपक्षे तु कथञ्चिदवक्तव्यः ॥१२॥ अथवा संद्रुतरूपाः सवादयो घट इत्यत्र दर्शनेऽर्थान्तरभूता रूपादयः, निजं सन्द्रुतरूपम् , ताभ्यामादिष्टो घटोऽवक्तव्यः, अरूपादिव्यावृत्त्या रूपादिव्यवस्थायामरूपाद्यात्मकघटताया रूपादीनामवाच्यत्वात् , अरूपादिरूपत्वे च रूपादीनां तत्स्वरूपस्यैवाभावे के सन्द्रुतरूपतया विशेष्या ये घटरूपतामास्कन्देयुरित्येवमप्यवाच्यः । अनेकान्तवादे च कथञ्चिदवाच्यः ॥१३॥ इयमेव रीतिरसन्द्रुतरूपा रूपादयो घट इति पक्षेऽपि भावनीया । तत्र रूपादीनामर्थान्तरभूतत्वादसन्द्रुतरूपत्वस्य च निजत्वात्ताभ्यामादिष्टस्यावकव्यतायाश्च प्राग्वद्विशेष्यलोपादेव सिद्धेः । कथञ्चित्पक्षस्य च जैनानां सर्वत्राप्यदुष्टत्वात् । पूर्वपक्षे रूपादिषु घटत्वं पर्याप्तमत्र
For Private And Personal Use Only