________________
S
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥२०१॥
परिच्छेदः प्रथमः॥
HARMA
तावच्छाब्दबोधकारणं मणिकृदादिभिरपीप्यत एव,तच्च पदानां परस्परसहकारेणैकमुख्यविशेष्यताकान्वयबोधतात्पर्यज्ञानमेकमु- ख्यविशेष्यताकान्वयबोधजनकत्वज्ञानं वा, एतज्ज्ञानस्य हेतुत्वेऽन्वयव्यतिरेकानुविधायित्वस्यैव मानत्वात् , गङ्गायां घोष इत्यादौ सम्भूयैकार्थबोधकत्वज्ञानानुरोधादेव लक्षणास्वीकारात् , अन्यथा गङ्गायां जलं तीरे घोष इति पदद्वयाध्याहारादेवोपपत्तौ लक्षणाया अनतिप्रयोजनत्वापोः, अत एव च दण्डी चैत्रो द्रव्यं नीलं घटमानयेत्यादौ चैत्रो न दण्डी घटो न नील इत्यादिबाधधीकाले चैत्रो द्रव्यं घटमानयेत्यादिशाब्दबोधानुदयः, सम्भूयोचारितत्वेन गृहीतानामेकं विनाऽन्यस्याबोधकत्वात् , तत्तदानुपूर्वीज्ञानस्य तादृशतादृशविषयकशाब्दत्वावच्छिन्नं प्रत्येव जनकत्वात् , तथा च तत्तत्पदार्थसंसर्गविशिष्टभावनाया एकत्वादेकक्रियाप्रधानार्थत्वं कर्तद्वयस्य तुल्यवदेकक्रियान्वयित्वाच तदुभयप्राधान्यस्य क्रमशो विवक्षितस्याभिधानं शाब्दिकनयाश्रयिणामसाकं मते सङ्गच्छते, क्रमशो विवक्षितत्वं ह्युभयपदोपस्थाप्योभयकर्तृकभावनान्वयबोधेच्छाविषयत्वम् , न तु क्रमिकशाब्दबोधद्वयेच्छाविषयत्वमिति बोधविशेषोदेशात्तृतीयभङ्गस्य सार्थक्यमिति । वचनसूचनेति (१९७-२-२) वचनं वाचकत्वम् , सूचनं द्योतकत्वम् । ननु सङ्केताधीनं शाब्दज्ञानमिति सह सदसत्त्वयोः कस्यचिच्छब्दस्य सङ्केतकरणात् कुतो न ततस्तद्बोधसम्भवाद्वक्तव्यत्वं स्यादित्याशङ्कते-स्यान्मतमित्यादिना (५) ॥ संज्ञाशब्दवदिति (६) यथा जैनेन्द्रव्याकरणे सदिति संज्ञाशन्दः | सङ्केतविशेषवशात् शतृशानचयोस्तथा कश्चित्सह सदसच्चयोः कथं प्रतिपादको न स्यादित्यर्थः । तत्रापि प्रत्ययस्योत्पत्तेः क्रमेणैव
सम्भवाद् बोधकतारूपशक्तर्बोध्यबोधकभेदेन भिन्नत्वान्नानार्थशब्दस्थल इव बोध्यभेदे शब्दभेदकल्पनादुपचारेण तदेकत्वाभिमानान प्रागुक्तसिद्धिरित्याह-तदयुक्तमित्यादि (६)। अन्यतरव्यपदेशार्हत्वादिति (७) उपचारादुभयशक्तत्वाभ्युपगमेऽपि
%A4%ACK
Al२०१॥
For Private And Personal Use Only