SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir क्षयस्य विधानात् । दृश्यचिकल्प्ययोः स्वलक्षणसामान्यचोरेकत्वाध्यवसायात् तत्क्षणक्षयस्य विधिः, न पुनर्वस्तुनः, सर्वथा विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावादिति चेत्, न, स्वलक्षणसामान्ययोरेकत्वाध्यवसायिना विकल्पेन स्वलक्षणस्याग्रहणात् , अगृहीतेन सह सामान्यस्यैकत्वाध्यवसायासंभवात् , अन्यथातिप्रसङ्गात् । प्रत्यक्षतः प्रमितेन स्वलक्षणेन तस्यैकत्वाध्यवसानमिति चेत् , नन्वेवं विकल्पाभिधानयोर्वस्तुसंस्पर्शामावे स्वलक्षणदर्शनस्याकृतनिर्णयस्य वस्तुसन्निधेरविशेषार्तिक केन प्रमितं स्यात् ? न हि मिथ्याध्यवसायेन तत्त्वव्यवस्थापनम् , संशयविपर्यासकारिणापि दर्शनेन स्वलक्षणस्य प्रमितत्वप्रसङ्गात् । वस्तुसंस्पर्शाभावाविशेषेपि निर्णयस्य जनकं दर्शन स्वलक्षणस्य प्रमाणं, न पुनः संशयादेरिति वदन्नात्मनोऽनात्मज्ञतामावेदयति । ननु च निर्णयेन दर्शनविषयसमारोपस्त्र व्यवच्छेदात्तजनक दर्शनं प्रमाणं, न तु संशयादेर्जनक, तेन तव्यवच्छेदात् , असमारोपितांशे दर्शनस्य प्रामाण्यात् " कचिदृष्टेपि यज्ज्ञानं सामान्यार्थं विकल्पकम् । असमारोपितान्यांशे तन्मात्रापोहगोचरम् ॥१॥” इति वचनान्नोक्तोपालम्भ इति चेत् , न, समारोपव्यवच्छेदविकल्पस्य स्वसंवेदनव्यवस्थानेपि विकल्पान्तरापेक्षत्वप्रसङ्गानीलादिस्वलक्षणदर्शनवनिर्विकल्पकत्वाविशेषात् । वस्तुदर्शनसमारोपव्यवच्छेदयोरन्यतरस्यापि स्वतस्तत्त्वापरिनिष्ठितावितरेतराश्रयदोषः । समारोपो हि येन व्यवच्छिद्यते स निश्चयः स्वरूपमनिश्चिन्वन्नपि यदि स्वतः परिनिठापयेत्तदा वस्तुदर्शनमपि, विशेषाभावात् । तथा च किं निश्चयापेक्षया ? वस्तुदर्शनस्य निश्चयापेक्षायां वा निश्चयस्वरूपसंवेदनस्यापि निश्चयान्तरापेक्षणादनवस्था स्यात् । निश्चयाद्वस्तुदर्शनस्य परिनिष्ठितौ वस्तुदर्शनाञ्च निश्चयस्वरूपस्य परस्पराश्रयदोष: स्यात् । ततो न विकल्पवच्छब्दस्य सर्वथान्यापोहोर्थः । एतेमातत्कार्यकारणव्यावृत्तिरेकप्रत्यवमर्शादिज्ञानादेकार्थसाधने हेतुरत्यन्तभेदेपीन्द्रियादिवत्समुदितेतरगुडूच्यादिवञ्च ज्वरोपशमनादाविति वदन्निराकृतः, सर्वथा ततो वस्तुनि प्रवृत्त्ययोगात् । समयादर्शिनोपि क्वचिदन्वयबुद्ध्यभिधान For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy