________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-6062
क्षुरादिभियभिचारात्, तद्रूपस्य सन्तानान्तरसमानार्थविज्ञानेनानेकान्तात् , तद्द्यलक्षणस्य समानार्थसमनन्तरप्रत्ययेनानैकान्तिकत्वात् , त्रिलक्षणस्यापि विभ्रमहेतुफलविज्ञानैर्व्यभिचारात् , कामलायुपहतचक्षुषः शुक्ले शङ्ख पीताकारज्ञानादुत्पन्नस्य तद्रूपस्य तदाकाराध्यवसायिनोपि ज्ञानस्य स्वसमनन्तरप्रत्यये प्रमाणत्वभावात् । तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत, यतोऽवश्यं दर्शनं नियतस्वविषयानुपलम्भव्यावृत्तिलक्षणं परं विषयानुपलम्भात्मकं न प्रमाणयेत् । न हि स्वयं प्रमाणानभ्युपगमे स्वार्थप्रतिपत्तिः । न चाप्रतिपन्नमर्थ परस्मै प्रतिपादयितुमीशः, परमुपालब्धं वा, पराभ्युपगतस्यापि प्रमाणस्य प्रतिपत्तेरयोगात , पराभ्युपगमान्तरात्तत्प्रतिपत्तावनवस्थाप्रसङ्गात् । तदेकोपलम्भनियमः स्वपरलक्षणाभ्यां भावाभावात्मानं प्रसाधयति, तदभावे न प्रवर्तेत, नापि निवर्तेत, प्रमाणान्तरवत् । स्वस्यार्थस्य चैकस्यैवोपलभ्भो हीतरस्यानुपलम्भः, तस्य विधायक एवान्यस्य निषेधकः, तत्र प्रवर्तक एव वा परत्र निवर्तकः, इति तदेकोपलम्भनियमात्कस्यचित् प्रवृत्तिनिवृत्ती सिध्यतः । तदभावे सन्तानान्तरप्रमाणादिवत् प्रवर्तकान्न कश्चित्प्रवर्तेत, निवर्तकाच न निवर्तेत, अप्रमाणात्प्रवृत्तौ निवृत्तौ वा प्रमाणान्वेषणस्य वैयर्थ्यादतिप्रसङ्गाच । ततः प्रमाणं प्रत्यक्षमन्यद्वा स्वार्थोपलम्भात्मना परार्थानुपलम्भात्मना च क्रमार्पितेन सदसदात्मकं सिद्धम् । तद्वत्प्रमेयमपि । इति सर्व वस्तु क्रमाप्तिद्वयाद्वैतं को नेच्छेत् ? सर्वस्य विप्रतिपत्तुमशक्तेरनिच्छतोपि तथा संप्रत्ययात् । कथमवक्तव्यं सर्वमिति चेत् , उच्यते, निष्पर्याय भावाभावावभिधानं नाञ्जसैव विषयीकरोति, शब्दशक्तिस्वाभाव्यात् , सर्वस्य पदस्यैकपदार्थविषयत्वप्रसिद्धः, सदिति पदस्यासदवि घयत्वात् , असदिति पदस्य च सदविषयत्वात् , अन्यथा तदन्यतरपदप्रयोगसंशयात् , गौरिति पदस्यापि दिमाद्यनेकार्थविषयतया प्रसिद्धस्य तत्त्वतोऽनेकत्वात्सादृश्योपचारादेव तस्यैकत्वेन व्यवहरणात् , अन्यथा सर्वस्यैकशब्दवाच्यत्वापत्तेः, प्रत्येकमप्यनेकशब्दप्रयोग
THORTR
For Private And Personal Use Only