________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शानुपपत्तेः (१९३-२-१) अस्येदमिति परिणामपरिणामिभावसम्बन्धव्यवहारानुपपचेरित्यर्थः । तादृशाम् (१) उपादानोपादेयभूतानाम्, स्वरूपैकत्वम्, (१) एकद्रव्यतयाऽभेदः । अभेदे उपादानोपादेयभावविरोधमाशक्य परिहरति-न वे (१) त्यादिना मननात्, (१९३-२-२ ) इत्यन्तेन, तदेव द्रढयति-भाष्ये विशेषापेक्षया तु (२) इत्यादिना, विरोधस्य सहानुपलम्भलक्षणत्वादिति (६) एकज्ञानप्रतिबन्धकज्ञानविषयत्वमपरस्य विरोधो, न च क्रमाक्रमयोरयमस्ति, एकत्र पर्यायरूपेण क्रमज्ञानकाल एव द्रव्यरूपेणाक्रमस्य ज्ञायमानत्वादित्यर्थः । इत्थमेव सभ्वासत्त्वयोरपि न विरोध इत्याह-न चेत्यादिना (६) । | सम्भवतोरेवेति (७) नियमागर्भभिन्नाधिकरणत्वं परस्परपरिहारस्थितिपदार्थ इत्यभिप्रायेणेदम्, भावाभावरूपत्वमेव परस्परपरिहारत्वमित्यर्थे तु तद्विरोधस्य विशिष्य विश्रान्तत्वादवच्छेदकभेदाश्रयणाद्वा परिहारः कार्य इति भावनीयम् । ननु तैस्तैः पर्यायैरात्मद्रव्यस्य साक्षात्करणे परोक्षीकरणे वा केशादिविवेकव्या मुग्धबुद्धिः पुरुषो दृष्टान्ततया भाष्यकृतोक्तः कथं सङ्गच्छते, भ्रमज्ञाने साध्य एव व्यामुग्धबुद्धे दृष्टान्तत्वसम्भवादित्याशङ्कते - कथं तति, (१९४-१-४) केशमशकाद्यनुगतसामान्येन सत्त्वं साक्षात्कुर्वन् भेदरूपविवेकात्मना च परोक्षयन् तद्भिन्नरूपेण चासत्त्वं साक्षात्कुर्वन् परोक्षयन् वा पुरुषो दृष्टान्ततयोक्त इति न वैषम्यमित्याशयवान् समाधत्ते - केशेत्यादि (५) । तथा च केशादौ विवेके चार्थात्तदीये व्यामुग्धा परावर्त्तमाना सामान्य विशेषाकारतया विविच्यानिष्ठिता बुद्धिर्यस्य तद्वदित्यक्षरार्थो वाच्यः । ननु चेति (७) निश्चये, न तु पूर्वपक्षे, तद्वस्त्वित्यादिना (७) वस्तुस्थितेरेव वक्ष्यमाणत्वात् क्रमाक्रमोभयनियमसाधनान्यतरनियमखण्डनाभ्यां वस्तुव्यवस्थयैव । न चेत्, न, व्यवतिष्ठत ( १९४ - १ - १० ) इत्यस्य सूक्ततायाः समर्थयिष्यमाणत्वादिति बोध्यम् ।। १५ ।।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir