________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
परिच्छेद प्रथमः॥
अष्टसहस्री टू स्य, तत्र शेषधर्मगुणभावाध्यवसायात् । स्यान्मतम् ' अवक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्यापि धर्मान्तरस्य भावादष्टमस्य कथं विवरणम्॥ सप्तविध एव धर्मः सप्तभङ्गीविषयः स्यात्' इति, तदप्ययुक्तं, सत्त्वादिभिरभिधीयमानस्य वक्तव्यत्वस्य प्रसिद्धेः, सामान्येन वक्तव्यत्वस्यापि
विशेषेण वक्तव्यतायामनवस्थानात् । भवतु वा वक्तव्यत्वावक्तव्यत्वयोर्धर्मयोः सिद्धिः । तथापि ताभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यां ॥१८३॥
| सत्त्वासत्त्वाभ्यामिव सप्तभङ्गयन्तरस्य प्रवृत्तेन तद्विषयसप्तविधधर्मनियमविघातोस्ति, यतस्तद्विषयसंशयः सप्तधैव न स्यात्तद्धेतुर्जिज्ञासा
वा तन्निमित्तः प्रश्नो वा वस्तुन्येकत्र सप्तविधवाक्यनियमहेतुः । इति सूक्ता सत्त्वादिधर्मविषया गौः सप्तभङ्गी । साच स्याद्बादामृतगभिणी, स्याद्वचनार्थस्य कथञ्चिच्छब्देन प्रतिपादनात् , तेनानेकान्तस्य द्योतकेन वाचकेन वा तस्याः प्रतिहतैकान्तान्धकारोदयत्वात्। न चैवं स्याच्छब्दवत्कथंचिच्छब्देनैवानेकान्तस्य प्रतिपादनात्सदादिवचनमनर्थकमाशङ्कनीय, ततः सामान्यतोनेकान्तस्य प्रतिपत्तावपि विशेपार्थिना विशेषस्यानुप्रयोगात् , सामान्यतो(न्ये नो)पक्रमेपि विशेषार्थिना विशेषोनुप्रयोक्तव्यो, वृक्षो न्यग्रोध इति यथेति वचनात् । द्योतकपक्षे तु न्यायप्राप्त सदादिवचनं, तेनोक्तस्य कथञ्चिच्छब्देन द्योतनात् , तेनानुद्द्योतने सर्वथैकान्तशङ्काव्यवच्छेदेनाऽनेकान्तप्रतिपतेरयोगात् , एवकारावचने विवक्षितार्थाप्रतिपत्तिवत्। नन्वनुक्तोपि कथञ्चिच्छन्दः सामर्थ्यात्प्रतीयते, सर्वत्रैवकारवदिति चेत् , न, प्रयोजकस्य स्याद्वादन्यायाकौशले प्रतिपाद्यानां तदप्रतीतेस्तद्वचनस्य कचिदवश्यं भावात् । तत्कौशले वा तदप्रयोगोभीष्ट एव, सर्वस्यानेकान्तात्मनो वस्तुनः प्रमाणात् साधने सर्व सदित्यादिवचनेपि स्यात्सर्व सदेवेत्यादिसंप्रत्ययोत्पत्तेः । इति प्रपञ्चतोन्यत्र प्ररूपितमवगन्तव्यम् । ननु च जीवादिद्रव्यं सदेव कथश्चिदित्यसिद्धं, दर्शनावग्रहादि विशेषव्यतिरेकेण तस्यानुपलम्भात् , अश्वविषाणवदिति चेत्, न, अवग्रहेहादेरन्योन्यं स्वलक्षणविवेकैकान्ते जीवान्तरवत्स्वात्मन्यपि सन्तानभेदप्रसङ्गात् । तथा च यदेव मया विषयविषयसन्निपातदशायां
645CMALAYA
॥१८॥
For Private And Personal Use Only