SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir परिच्छेदः अष्टसहस्री विवरणम् ॥ ॥१८ ॥ प्रथमः॥ CRIMARCSC-25 त्पादस्यैवाखण्डसंस्कारनाशत्वेन तस्यार्थसिद्धत्वात् , एतच्च संस्कारसविषयकत्वपक्ष एव युज्यते, तत्तद्रोगादीनां तत्तत्पुरुषीयसंस्कारन्यूनविषयसंस्कारहेतुत्वेनैव तव्यवस्थापनात् । न च तत्र भूयः संस्कारमध्ये कतिपयनाशोपगमादुपपत्तिः, पदवाक्यशास्त्रतदर्थज्ञानस्थले पदतदंशादिनानासंस्कारकल्पने गौरवात् , विशकलितसंस्कारेभ्यो विशिष्टस्मृत्यनुपपत्तेश्च, यत्तु संस्कारस्य निर्विषयकत्वे घटांशे उपेक्षात्मकाद्भूतलं घटवत्पटवच्चेतिनिश्चयाद्घटांशेऽपि स्मृतिप्रसङ्गः, स्वजन्यभावनायाः पटांशस्मृत्यनुरोधेन स्वीकारात् , सर्वांशापेक्षाजन्यानन्तसंस्कारकल्पनाभयेनोपेक्षान्यत्वेन संस्कारत्वावच्छिन्न एव हेतुत्वादिति, तदसत् , आंशिकोपेक्षाभेदानां स्मृतिहेतुतावच्छेदके सर्वांशोपेक्षामेदानां च भावनाहेतुतावच्छेदके प्रवेशेनैव सामञ्जस्यात् , न चास्मिन् मते द्विधोपेक्षामेदप्रवेशे गौरवम् । यतो भावनात्वावच्छिन्ने सर्वांशे उपेक्षामात्रभेदविशिष्टप्रकारकज्ञानत्वेन स्मृतित्वावच्छिन्नं प्रति च भावनात्वेनैक एव हेतुहेतुमद्भावः, तदंशे आंशिकोपेक्षाभेदविशिष्टतद्विशेष्यकतत्प्रकारकनिश्चयत्वेन तादृशस्मृतित्वेन स्मृतावेव चान्ये हेतुहेतुमद्भावाः, अन्यमते त्वनुभवसंस्कारयोः स्मृतिसंस्कारयोश्च नानाहेतुहेतुमद्भावाः कल्पनीया इति तत्रैव गौरवात् , घटत्वादिप्रकारतानिरूपितघटादिविशेष्यतास्थानाभिषिक्तघटाद्याकारतायाः "सागारे नाणे हवह" इत्याद्यागमस्वारस्येनाखण्डायाः स्वीकारे आकारतासम्बन्धेन स्मृतित्वावच्छिन्ने संस्कारत्वावच्छिन्ने चैकैक एव धारणात्वेन हेतुहेतुमद्भावोंशे चोपेक्षारूपं धारणाज्ञानं न स्वीक्रियत एवासमाप्तोपयोगस्यैवोपेक्षात्वात् , संशयेऽपि न धारणात्वम् , धारयामीत्यनुभवेन संशयव्यावृत्तस्यैव तस्य सिद्धत्वादित्युपेक्षान्यत्वसंशयान्यत्वयोः कारणतावच्छेदके प्रवेशप्रयुक्तं तयोविशेषणविशेष्यभावे विनिगमनाविरहादनन्तकार्यकारणभावकल्पनाप्रयुक्तं च गौरवं परिहृतं भवति, अनुमित्यादिस्थले च मानस्यैव ॥१८ ॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy