________________
Siri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्त्री| विवरणम्॥ ॥१७३॥
परिच्छेदः प्रथमः॥
च जात्यादिना संसर्गासंभवात् , स्वोपादानसजातीयत्वात् । कथमिदानी विकल्पो जात्यादिव्यवसायीति चेत् , न कथमपि । तथा हि । किश्चित्केनचिद्विशिष्टं गृह्यमाणं कचिद्विशेषणविशेष्यतत्संबन्धव्यवस्थाग्रहणमपेक्षते दण्डिवत् , " विशेषणं विशेष्यं च संबन्ध लौकिकी स्थितिम् । गृहीत्वा संकलय्वैतत्तथा प्रत्येति नान्यथा ॥१॥” इति वचनात्। न चायमियतो व्यापारान् कर्तुं समर्थः; प्रत्यक्षवलोत्पत्तेरबिचारकत्वात् प्रत्यक्षवत् । कश्चिदाह नैतदेवं दूषणं, प्रत्यक्षादेवाध्यवसायोत्पत्त्यनभ्युपगमात् , शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य, तद्वासनाविकल्पस्यापि पूर्वतद्वासनाप्रभवत्वादित्यनादित्वाद्वासनाविकल्पसन्तानस्य प्रत्यक्षसंतानादन्यत्वात् , विजातीयाद्विजातीयस्योदयानिष्टेः, तदिष्टौ यथोदितदूषणप्रसङ्गात्' इति, तस्याप्येवादिनः शब्दार्थविकल्पवासनाप्रभवात्ततस्तर्हि कथमक्षबुद्धेः रूपादिविषयत्व नियमः सिद्धयेत् ? मनोराज्यादिविकल्पादपि तत्सिद्धिप्रसङ्गात्। अथाक्षबुद्धिसहकारिणो वासनाविशेषादुत्पन्नाद्रूपादिविकल्पादक्षबुद्धे रूपादिविषयत्वनियमः कथ्यते । तत एवाक्षबुद्धिविषयत्वनियमोप्यभिधीयताम् । अन्यथा रूपादिविषयत्वनियमोपि मा भूदविशेषात् । रूपायुल्लेखित्वाद्विकल्पस्य तद्बलात् तदभ्युपगमे वा प्रत्यक्षबुद्धरभिलापसंसर्गोपि तद्वदनुमीयेत, तद्विकल्पस्याभिलापेनाभिलप्यमानजात्यायुल्लेखितयोत्पत्त्यन्यथानुपपत्तेः, तदनुमिताचाक्षबुद्ध्यभिलापसंसर्गाद्रुपाद्यभिलापसंसर्गोनुमीयेत ।। इति शब्दाद्वैतवादिमतसिद्धिः । न च सौगतो दर्शनस्याभिलापसंसर्गमुपैति । तस्मादयं किञ्चित्पश्यन तत्सदृशं पूर्व दृष्टं न स्मर्तुमर्हति तन्नामविशेषास्मरणात् । तदस्मरनैव तदभिधान प्रतिपद्यते । तदप्रतिपत्तौ तेन तन्न योजयति । तदयोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्पाभिधानं जगत्स्यात् । ननु च नामसंश्रयस्य विकल्पस्य प्रत्यात्मवेद्यत्वात् सर्वेषामभिधानस्य च श्रोत्रबुद्धौ प्रतिभासनात्कथमविकल्पाभिधानं जगदापद्यतेति चेत्, न, तत्राप्यध्यवसायासंभवात्, न च स्वसंवेदनेनेन्द्रियप्रत्यक्षेण वा निर्विकल्पकेन विकल्पोभिधानं वा गृहीतं नाम,
॥१७॥
For Private And Personal Use Only