________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
॥ १७२॥
www.kobatirth.org
लोक्यम्, अन्यथा ( १७२ - १ - ३) महदादिरूपेणापेतम्, अन्यथा ( ४ ) प्रकृतिरूपेणास्तीत्यकामेनापि साङ्ख्येन स्याद्वादे प्रवेष्टव्यमित्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
परिच्छेदः
प्रथमः ॥
अवाच्यतैकान्तेप्युक्तिर्नावाच्यमिति युज्यते ॥ १३ ॥
योपि पक्षत्रयोपक्षिप्तदोषजिहासया सर्वथाऽवक्तव्यं तत्त्वमवलम्बेत, सोपि कथमवक्तव्यं ब्रूयात्, येनावाच्यतैकान्तेप्यवाच्यमित्युतिर्युज्यते । तदयुक्तौ कथं परमवबोधयेत् ? स्वसंविदा परावबोधनायोगात् । तदनवबोधने कथं परीक्षितास्य स्यात् ? तस्यापरीक्षकत्वे च कुतोन्यस्माद्विशेषः सिध्येत् ? अपरीक्षिततत्त्वाभ्युपगमस्य सर्वेषां निरङ्कुशत्वात् । नैष दोषः स्वलक्षणमनिर्देश्यं प्रत्यक्षं कल्पनापोढमित्यादिवत्सर्वमवाच्यं तत्त्वमिति वचनेपि विरोधाभावात् परप्रतिपादनस्यान्यथानुपपत्तेः, इति कस्यचिद्वचनं, तदप्यसत्, यदसतः समुदाहृतम् । सिद्धसाध्यव्यवस्था हि कथामार्गाः । न च स्वलक्षणस्य सर्वथाप्यनिर्देश्य त्वोपगमे ' स्वलक्षणमनिर्देश्यम्' इति वचनेन तस्य निर्देश्यत्वमविरुद्धम् । अथ स्वलक्षणं नैतद्वचनेनापि निर्देश्यं स्वलक्षणसामान्यस्यैव तेन निर्देश्यत्वात् स्वलक्षणे निर्देशासंभवात्, नार्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेपि प्रतिभासेरन्निति वचनात् । कल्पनारोपितं तु स्वलक्षणं तद्धर्मो वा निर्देश्यत्वशब्देन निर्दिश्यते, विरोधाभावादिति मतं, तर्हि स्वलक्षणमज्ञेयमपि स्यात् । यथैवाक्षविषयेऽभिधानं नास्ति तथाक्षज्ञाने विषयोपि नैवास्ति । ततस्तत्र प्रतिभासमानेपि न प्रतिभासेत । शक्यं हि वक्तुं ' यो यत्राधेयतया नास्ति तदात्मा वा न भवति स तस्मिन् प्रतिभासमानेपि न प्रतिभासते यथाक्षविषये स्वलक्षणे शब्दः । नास्ति चाक्षज्ञाने तथाक्षविषयस्तदात्मा वा न भवति, इति । यदि पुनर्विषयसामर्थ्यादक्षज्ञानस्योत्पादात्तत्र प्रतिभासमाने स प्रतिभासत एवेति मतं, तदप्यसम्यक्, करणशक्तेरपि प्रतिभासप्रसङ्गात् । ॥ १७२ ॥