________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री | शून्यतेति भावः । संवृतेः स्वरूपपररूपाभ्यामस्तित्वनास्तित्वपर्यवसानेन स्वसमयार्थसिद्धिमुद्घोषयति यदीत्यादिना | परिच्छेद विवरणम् ।। (१७०-२-२) प्रत्येकपक्षपर्यवसितमुभयानुभयपक्षयोरपि पर्यवस्यतीत्याशयबानाह भाष्यकृत् ' तदेतेनेति'(५)॥ न* प्रथमः॥ ॥१७॥
कश्चिद्विवाद इति (६) क्रमार्पितोभयविषयस्य तृतीयभङ्गस्यास्मदभिमतत्वादेवेत्यर्थः, 'तथाग्र इति' (७) प्रत्येकरूपेणोभयभिन्नभेदस्योभयत्रैव पर्यवसानादिति भावस्याग्रे स्फुटीकरिष्यमाणत्वादित्यर्थः, तदस्तीति (७) तदस्ति नास्ति उभयमनुभयं चेत्यर्थः । उक्तदोषानुषङ्गादिति (८) मृपैकान्तस्याप्यघटमानत्वेनानेकान्तसत्यत्वे पर्यवसानादित्यर्थः । नहि विचा
रस्येत्यादि (८)। विप्रतिपत्तिनिरासानुकूलो विमों विचारः शून्यवादिनश्च क्वचिदप्यनिर्णयेन विचाराभावे तदनुरूपा संवृतिदारोत्सारितैव, विशेषणाभावे विशिष्टाभावादिति भावः । किं बत परमन्यत्र मोहनीयप्रकृतेरिति (१४) महामोहदोषान्न पाकिश्चिदधिकं विभ्रमकारणं येन बहुवादिसम्मतमपि पदार्थसद्भाव निरस्य नैरात्म्यं शिक्षयति भिक्षून शौद्धोदनिरित्यर्थः ॥१२॥ परस्परनिरपेक्षभावाभावैकान्तपक्षोपि न क्षेमकरः, तत एवेत्यावेदयन्ति स्वामिनः ॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । भावाभावयोरेकतरप्रतिक्षेपैकान्तपक्षोपक्षिप्तदोषपरिजिहीर्षया सदसदात्मकं सर्वमभ्युपगच्छतोपि वाणी विप्रतिषिध्येत, तयोः परस्परपरिहारस्थितिलक्षणत्वात् । न हि सर्वात्मना कश्चिदर्थ सन्तं तथैवासन्तमाचक्षाणः स्वस्थः, स्वाभ्युपेतेतरनिरासविधानकरणाच्छून्यावबोधवत् । यथैव हि सर्वथा शून्यमवबुध्यमानः स्वसंवेदनादन्यतो वा स्वाभ्युपेतं शून्यतैकान्तं निरस्यति, अनभ्युपेतं प्रमाणादिसद्धावं विधत्ते, तथैव भावाभावयोस्तादात्म्यैकान्तं ब्रुवन् स्वाभ्युपेतं सदसदात्मकं निरस्यति, स्वयमनभ्युपगतं तु भावैकान्तम
For Private And Personal Use Only