________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
CACA5%25ACC0-5645605640%AL
उत्पन्नो विनष्ट इति च गम्यते । उत्पत्तिरेवोत्पत्स्यते विनश्यति स्थास्यतीति न कुतश्चिदुपरमति । सोत्पन्ना विनष्टा स्थितेति गम्यते। स्थित्याद्याश्रयस्य वस्तुनोऽनाद्यनन्तत्वादनुपरमसिद्धेः स्थित्यादिपर्यायाणां कालत्रयापेक्षिणामनुपरमसिद्धिः, अन्यथा तस्यातल्लक्षणत्वप्रसङ्गात्सत्त्वविरोधात् । एतेन जीवादि वस्तु तिष्ठति स्थितं स्थास्यति, विनश्यति विनष्टं विनश्यति, उत्पद्यते उत्पन्नमुत्पत्स्यते चेति | प्रदर्शितं, कथञ्चित्तदभिन्नस्थित्यादीनामन्यथा स्थास्यत्यादिव्यवस्थानुपपत्तेः । तथा चैतेषां नवानामपि विकल्पानां प्रत्येक नवविकल्पतोपपत्तेरेकाशीतिविकल्पं वस्तूां, तदभिन्नस्थित्यादिपर्यायाणामपि तावद्धाविकल्पादनुपरमसिद्धेः । यथा जीवपुद्गलधर्माधर्माकाशकालविकल्पमशुद्धद्रव्यमनन्तपर्यायं सह क्रमाञ्च चिन्तितं तथा सन्मानं शुद्धद्रव्यमपि प्रतिपत्तव्यं, तस्यैव द्रव्यत्वविशेषणस्य द्रव्यव्यवहारविषयत्वसिद्धेः । तथा हि । भाव एव द्रवति द्रोष्यत्यदुदुवदिति द्रव्यं, तथा क्षीयन्ते क्षेष्यन्ते क्षिताश्चास्मिन् पदार्थो इति क्षेत्रं, कल्यन्ते
कलयिष्यन्ते कलिताश्चास्मादिति कालः, भवति भविष्यत्यभूदिति भावः पर्याय इति सत्तैव विशेष्यते द्रव्यक्षेत्रकालभावात्मना, तस्या &ा एव तथा व्यवहारविषयत्वघटनात् । ततः परस्परब्यावृत्तस्वभावानऽनन्तगुणपर्यायान्प्रतिक्षणमासादयन्ती सत्तैव तिष्ठतीत्यादि योज्यं,
तस्या अप्येकाशीतिविकल्पत्वोपपत्तेः । तथा भेदानेव संद्रवन्तीत्यादि प्रतिपत्तव्यं क्षितान कुर्वन्ती कलयन्ती भवन्ती च सत्तैव तिष्ठतीत्यादियोजनायाः संभवात् । तथा चोक्तं "सत्ता सकलपदार्था सविश्वरूपा त्वनन्तपर्याया। स्थितिभङ्गोत्पादार्था सप्रतिपक्षा भवत्येका" || १॥ इति । तदेवं पर्यायार्थिकनयप्राधान्याव्यार्थिकनयगुणभावात्सर्वस्य स्वभावान्तरव्यावृत्तिः प्रसिद्धाऽन्यापोहव्यतिक्रममपाकरोतीति किं नः प्रयासेन । तथा केषाञ्चित्तत्त्वतोत्यन्ताभावापाकृतौ न कचित्किञ्चित्कथञ्चिन्न वर्तेत । वर्ततामिति चेत् , तथा सर्व सर्वत्र सर्वथोपलभ्येत । न च ज्ञानादिकं घटादावुपलभ्यते, नापि रूपादिकमात्मादौ । न च किञ्चित्स्वात्मनेव परात्मनाप्युपलभ्येत, ततः
For Private And Personal Use Only