________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
भयोनिरुपास्यतापत्तिः । तथा व्याप्तिव्यवहारकालवर्त्तिनोधूमादिलिङ्गाग्न्यादिलिनिनोर्भावप्रत्यासत्त्यसत्त्वे कचित्पावकादिलिङ्गिनि ततोनुमानायोगादनुमानानुमेययोरसत्त्वप्रसङ्गानिरुपास्यत्वप्रसङ्गः । किं बहुना, संवेदनस्य कस्यचित्केनचिवद्याद्याकारेण प्रत्यासत्तरसत्त्वे तदुभयोरसत्त्वाग्निरुपाख्यत्वम् । तत्प्रत्यासत्तिसद्भावे वा सिद्धश्चतुर्धापि संबन्धः, संवित्तदाकारयोर्द्रव्यादिप्रत्यासत्तिचतुष्टयस्यापि भावात्परस्परं पारतन्त्र्यसिद्धेः । सिद्धस्य संविदाकारस्य संवित्परतन्त्रतानिष्टौ संविदभावेपि भावप्रसन्नात् , संविदो वा स्वाकारपरतन्त्रतानुपगमे निराकारसंविदनुषङ्गात्, तथोपगमेपि संविदो वेद्याकारविवेकपरतन्त्रतानभिमनने वेद्याकारात्मताप्रसङ्गात्, सर्वथा संबन्धाभावस्य च भावपरतन्त्रत्वानङ्गीकरणे स्वतन्त्रस्याभावरूपत्वविरोधात् कुतस्तव्यवस्था ? तदयं कस्यचित्सिद्धस्यासिद्धस्य वा परतन्त्रतामुपलभ्य सर्वत्र सिद्धेऽसिद्धे वा का परतन्त्रतेति ब्रुवाणः कथं न परतन्त्रः ? कस्यचिदसिद्धस्यापि कार्यात्मनः कारणपरतन्त्रतोपपत्तेरन्यथा कारणाभावेपि कार्योत्पत्तेर्निवारणायोगात् , कुतश्चित्कस्यचिदनुत्पत्तौ शश्वत्सत्त्वप्रसङ्गात्, “सदकारणवनित्यम्" इति वचनात् , संवृत्या पारतन्त्र्योपगमेपि तदोषानतिवृत्तेः संवृतेमपारूपत्वात् । तत्त्वतोपि कचित्पारतन्त्र्येष्टौ सिद्धस्तात्त्विकः संबन्धः । इति न तत्प्रतिक्षेपः श्रेयान् , यतः संबन्ध्यन्तरापेक्षया सदसकृय सन्तानान्तरभावस्वभावभेदाः परस्परं व्यावृत्ता न भवेयुः । तदेवं प्रतिक्षणमनन्तपर्यायाः प्रत्येकमर्थसार्थाः, न पुनरेकस्वभावा एव भावाः क्षणमात्रस्थितयः, अन्वयस्यानारतमविच्छेदात् । क्रमशोपि विच्छेदेऽर्थक्रियानुपपत्तेः स्वयमसतस्तत्त्वतः कचिदुपकारितानुपपत्तेः कुतः कस्यात्मलाभः स्यात् ? कथचिदविच्छेदे पुनः स सुघट एव कारणस्य स्वकार्यात्मना भवतः प्रतिक्षेपायोगात् स्वभावान्तरानपेक्षणवत्, स्वयमुत्पित्सोरपि स्वभावान्तरापेक्षणे विनश्वरस्यापि तदपेक्षणप्रसङ्गात्, एतेन स्थानोः स्वभावान्तरानपेक्षणमुक्त, विश्रसापरिणामिनः कारणान्तरानपेक्षोत्पादादि
464645434561615453
For Private And Personal Use Only