________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
+450%
A5%05-
24NCR
क्तेस्तत आनयनार्थकधातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानमपि हेतुरिति चेत् , तर्हि सिद्धो वाक्यस्फोटः३, घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानस्येव विशिष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् , अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । वाक्यार्थस्या| पूर्वत्वात् कथं तत्र शक्तिग्रह इति चेत् , अन्विताभिधानवादे पदेऽपि कथम् , अन्वयस्यापूर्वत्वात् । यदि च पदशक्तिः पदार्थांशे ज्ञाताऽन्वयांशे चाज्ञातोपयुज्यत इति कुब्जशक्तिवादः, तदा ममापि वाक्यशक्तिरज्ञातैवोपयुज्यत इति वादाभ्युपगमस्तुल्यः, अन्विते पदशक्तिग्रहो वृद्धव्यवहारदर्शनसहकृतेन मनसा चेत् , वाक्येऽपि तुल्यमेतत् , अत एव सर्वत्र वाक्याथों लक्ष्य इति भाव्यः । वस्तुतः समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं शक्तिग्रहस्तदनन्तरामवापोद्वापाभ्यां प्रत्येकं तद्ग्रह इत्युपजीव्यत्वाद्वाक्यस्फोट आश्रयणीयः। न च पदत्वं वाक्यत्वं वा दुर्ग्रहम् , चरमवर्णप्रत्यक्षसमयेऽव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवत्त्वरू| पस्य तस्य सुग्रहत्वात् , वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहोऽनन्तवर्णकल्पने मानाभावात्तत्तद्वर्णोत्पादकत्वाभिमतवायुसंयो
गनिष्ठं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् , उक्तं हि देवताधिकरणे भामत्यां, तारत्वादि वायुनिष्ट वर्णेष्वारोप्यत इति । न चैवं वाचकोऽपि वायुसंयोग एव स्यात् , प्रत्यक्षोपलभ्यककारादेरेव तत्वस्यानुभविकत्वात् । तथा च तदेवेदं पदं तदेवेदं वाक्यमित्यादिधियाऽखण्डस्फोटः सिद्ध्यति । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवात् श्रूयमाणवर्णानामेष वाचकत्वमित्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् , उक्तवायुसंयोगानां मध्ये केषांचिद् गत्वेन केषांचिदौत्वेन केषांचिद्विसर्गत्वेनाभिव्यञ्जकत्वान्नानुपपत्तिः,अव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वस्य टकारे ग्रहादेतादृशपदज्ञानकारणताया
HिASTARRACE%E
For Private And Personal Use Only