SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir SARKARCHANAGARMARCH अस्मिन्नभ्युपगमे जैन्याः प्रक्रियाया विरोधः स्यादिति दृषणमाह, 'तदेतदपीत्यादि' (६) 'द्रव्यार्थादेशादिति' (८) सौगतैश्च पर्यायार्थमात्रादेशः स्वीक्रियत इति न तत्प्रक्रियानुसरणेनोभयनयवादिनो जनस्य सिद्धान्तव्याकोप इति भावः । प्रागभावाभावस्वभावता (८) घटप्रागभावध्वंसरूपता, तद्रव्यस्य (९) मृद्रव्यस्य, अभावासम्भवात् (९) घटोत्पत्तिकाले ध्वंसासम्भवात् , तत एव (९) घटस्य मृद्रव्यरूपघटप्रागभावध्वंसत्वाभावादेव, न जातुचिदिति (९) घटोत्पत्तेर्घटप्रागभावध्वंसोत्पत्तिनियतत्वादिति भावः । यदि पुनरिति (९) क्लुप्तेषु पूर्वपर्यायेषु घटप्रागभावत्वमात्रकल्पने लाघवात्तद्व्यक्तित्वादिना ते पां सादित्वेऽपि घटप्रागभावत्वेनानादित्वेऽपि विरोधाभावाच्चेति भावः । तदापीति' (१०) न च घटप्रागभावत्वावच्छिन्नप्रतियोगिताकध्वंसस्य घटोत्पत्तिव्याप्यत्वान्नायं दोष इति शङ्कनीयम् । ध्वंसस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे मानाभावात् , एकघटवति घटान्तरपागभावसत्त्वेन तदसम्भवाच, एतेन यावद्घटप्रागभावध्वंसवत्वं घटोत्पत्तिव्याप्यमित्यपि निरस्तम् , असम्भवात् । न च यावत्तद्घटप्रागभावध्वंसवत्वं तद्घटोत्पत्तिव्याप्यमित्यपि वक्तुं युक्तम्, गौरवात् , क्षणविशेषे व्याप्तिविश्रामाच्च ॥ द्रव्यपर्यायात्मेति (१२) प्राक्तनपर्यायेषु मृद्रव्ये च घटप्रागभावत्वं व्यासज्यवृत्तीत्यर्थः, प्रत्येकावृत्तेः समुदायावृत्तित्वनियमात् प्रागभावत्वस्य प्रत्येकवृत्तित्वध्रौव्ये तदादाय दूषणमाह 'नैवमप्युभयेत्यादि'(१३ ) ॥ न च पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकतद्घटप्रागभावत्वावच्छिन्नप्रतियोगिताकतद्धटप्रागभावाभावस्य तद्घटोत्पत्तिव्याप्यत्वान्नायं दोष इति वाच्यम् । एवं सति घटप्रागभावत्ववत् घटत्वघटध्वंसत्वादेरपि द्रव्यपर्यायोभयपर्याप्तत्वापत्तेरतीन्द्रियवृत्तित्वेनाप्रत्यक्षत्वापत्तेश्च, एतेन विशिष्टद्रव्यप्रागभाववादोऽपि निरस्तः । For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy